SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ विशेषा० ।।१५२।। Jain Educations Internations क्षणस्य तदाद्यभेदस्याऽभावप्रसङ्गः प्रथमत एवाध्वग्रहमतिक्रम्या पायाभ्युपगमात् । कथं पुनः शब्दज्ञानमपायः १, इति चेत् । उच्यतेतस्याऽपि विशेषग्राहकत्वात्, विशेषज्ञानस्य च भवताऽप्यपायत्वेनाऽभ्युपगतत्वात् । ननु ' शाङ्ख एवाऽयं शब्द:' इत्यादिकमेव तदुत्तरकालभावि ज्ञानं विशेषग्राहकं, शब्दज्ञाने तु शब्दसामान्यस्यैव प्रतिभासनात् कथं विशेषप्रतिभासः, येनाऽपायप्रसङ्गः स्यात् १, इत्याह'नणु इत्यादि' नन्वित्यक्षमायां, परामन्त्रणे वा, ननु 'शब्दोऽयं नाशब्दः' इति विशेषोऽयं विशेषप्रतिभास एवायमित्यर्थः । कथं पुननशब्द इति निश्चीयते ?, इत्याह- न च रूपादिरिति, चशब्दो हिशब्दार्थे, आदिशब्दाद् गन्ध-रसस्पर्शपरिग्रहः । ततंश्चेदमुक्तं भवति| यस्माद् न रूपादिरयम्, तेभ्यो व्यावृत्तत्वेन गृहीतत्वात्, अतो 'नाऽशब्दोऽयं' इति निश्चीयते ; यदि तु रूपादिभ्योऽपि व्यावृत्तिर्गृहीता न स्यात्, तदा 'शब्दोऽयम्' इति निश्चयोऽपि न स्यादिति भावः । तस्मात् 'शब्दोऽयं नाशब्दः' इति विशेषप्रतिभास एवाऽयम् । तथा च सत्यस्याऽप्यपायमसङ्गतोऽवग्रहाभावप्रसङ्ग इति स्थितम् ।। इति गाथार्थः ॥ २५४ ॥ अथ परोsवग्रहाऽपाययोर्विषयविभागं दर्शयन्नाह भोवमियं नाऽवाओ संखाइविसेसणमवाओ त्ति । तब्भेयावेक्खाए नणु थोवमियं पि नावाओ ॥ २५५ ॥ इदं शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात् स्तोकं स्तोकविशेषग्राहकम्, अतोऽपायो न भवति, किन्त्ववग्रह एवाऽयमिति भावः । कः पुनस्तीपायः १, इत्याह- 'संखाईत्यादि ' शाङ्खोऽयं शब्द इत्यादिविशेषणविशिष्टं यज्ज्ञानं तदपायः बृहद्विशेषावसायित्वादिति हृदयम् । हन्त ! यदि यद् यत् स्तोकं तत् तद् नाऽपायः, तर्हि निवृत्ता सांप्रतमपायज्ञानकथा, उत्तरोत्तरार्थविशेषग्रहणापेक्षयां पूर्वपूर्वार्थविशेषावसायस्य स्तोकत्वाद । एतदेवाह - ' तब्भेयेत्यादि ' तस्य शाङ्खशब्दस्य ये उत्तरोत्तरभेदा मन्द्र- मधुरत्वादयः, तरुण-मध्यम-वृद्ध स्त्री-पुरुषसमुत्थत्वादयश्चं तदपेक्षायां सत्यामिदमपि 'शाङ्खोऽयं शब्द:' इत्यादि ज्ञानं ननु स्तोकं स्तोकाविशेषग्राहकमेव, इति नाऽपायः स्यात् । एवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तरभेदापेक्षया स्तोकत्वादपायत्वाभावो भावनीयः || इति गाथार्थः ॥ २५५ ॥ तमेवाsपायाभावं स्फुटीकुर्वन्नाह इय सुबहुणा वि कालेण सव्वभेयाऽवहारणमसज्यं । जम्मि हवेज्ज अवाओ सव्त्रो च्चिय उग्गहो नाम ॥ २५६॥ १ स्तोकमिदं नाऽपायः शाङ्खादिविशेषणमपाय इति । तद्भेदाऽपेक्षायां ननु स्तोकमिदमपि नाऽपायः ॥ २५५ ॥ २ घ. ज. श्च तदपेक्षया त ३ इति सुबहुनाऽपि कालेन सर्वभेदाऽवधारणमसाध्यम् । यस्मिन् भवेदपायः सर्व एवाऽवग्रहो नाम ॥ २५६ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१५२॥ www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy