SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विशे० पास H ॥३३॥ मालपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणत्वात् तु द्रव्यमालता, यथा भविष्यद्धृताधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटता । नोआगमत इत्येतद् विवृण्वन्नाह-'आगमरहिओ इत्यादि नौशब्दस्य सर्वनिषेधवचनत्वात् नोआगमत इत्यनेनैतदुक्तं भवति, किम् ?, इत्याह-मङ्गलपदार्थज्ञस्य भव्यस्य च संबन्धी अचेतनः सचेतनश्च देहो वर्तमानकाले सर्वथैवाऽऽगमरहितः ॥ इति गाथार्थः ॥४४॥ ___ तदेवं सर्वनिषेधवचनत्वे नोशब्दस्यैवमुदाहरणमुपदर्शितम् , यदिवा देशनिषेधपरेऽपि नोशब्दे एतत् संबध्यत एवेति दर्शयन्नाह अहवा नो देसम्मि, नोआगमओ तदेगदेसाओ । भूयस्स भाविणो वाऽऽगमस्स जं कारणं देहो ॥ ४५ ॥ ___अथवा 'नो' इति नोशब्दः 'देसम्मि ति देशनिषेधवचनो विवक्ष्यत इत्यर्थः। ततश्च नोआगमत इति कोऽर्थः?, इत्याह-तदेकदेशादागमैकदेशादागमैकदेशमाश्रित्य द्रव्यमङ्गलमित्यर्थः । किं पुनस्तत् ? इति चेत् । मङ्गलपदार्थज्ञस्याऽचेतनः, भव्यस्य तु सचेतनो देहइत्यनुवर्तमानं संबध्यते । कः पुनरिहाऽऽगमस्यैकदेशो यमाश्रित्य नोआगमतो द्रव्यमङ्गलमिदं स्यात् ? इति । अत्रोच्यते-यथोक्तो ज्ञभव्यशरीररूपो देह एवात्राऽऽगमैकदेशः । ननु जडस्य देहस्य कथमागमैकदेशता ?, इति । अत्राह- 'भूयस्सेत्यादि' यद् यस्मादचेतनो देहो भूतस्याऽतीतस्य मङ्गलपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणं हेतुः, सचेतनस्तु भव्यदेहो भाविनो यथोक्तस्याऽऽगमस्य कारणम् ; तस्माद् निजकार्यस्याऽऽगमस्यैकदेशे वर्तत एव; कारणं हि कार्यस्यैकदेशे वर्तत एच, यथा मृत्तिका घटस्य । अभेद एव घट-मृत्तिकयोरिति चेत् । नैवम् , भेदाभेदयोरेव जैनैरिष्टत्वात् , यद् वक्ष्यति " नत्थि पुढवीविसिट्टो घडो तिजं तेण जुज्जइ अणण्णो । जं पुण घडो ति पुव्वं नासी पुढवी तओ अण्णो" ॥ १ ।। आह-ननु मङ्गलपदार्थज्ञानस्य परिणामिकारणं जीव एव, ततस्तस्य स्वकार्यैकदेशे वृत्तिरस्तु; यथा मृत्तिकायाः, शरीरं त्वागमस्य परिणामिकारणं न भवति। अतः कथं तस्य तदेकदेशत्तिता? । सत्यम्, किन्तु "अण्णोण्णाणुगयाणं इमं च तं च त्ति विभयणपजुत्तं, जह खीरपाणियाणं" इत्यादिवचनात् संसारिणो जीवस्य शरीरेण सहाऽभेद एवं व्यवहियते, अतो जीवस्य परिणामिकारणत्वे शरीरस्याऽपि तद् विवक्ष्यते, इत्यस्याऽऽगमैकदेशता न विरुध्यते । भवत्वेवम् , तथाप्यागमतो द्रव्यमङ्गलं प्राग् यदुक्तं तेन सहाऽत्य को भेदः, तत्रापि हि “आगमकारणमाया देहो सहो य" इति वचनाच्छरीरमेव द्रव्यमङ्गलमुक्तम् । अत्रापि च तदेव, इति , अथवा नो देशे, नोआगमतस्तदेकदेशातं । भूतस्य भाविनो वाऽऽगमस्य यत् कारणं देहः ॥ ४५ ॥ २ नास्ति पृथिवीविशिष्टो घट इति यत् तेन युज्यतेऽनम्यः । यत् पुनर्घट इति पूर्व नासीत् पृथिवी ततोऽन्यः ॥1॥ ३ अन्योन्याऽनुगतानामिदं च तचेति विभजनमयुक्तम्, यथा क्षीरपानीययोः । ४ गाथा ३०॥ a ॥३३॥
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy