SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ SoSorry विशे हवत्तिः । ॥३४॥ कथं नैकत्वम् । सत्यम् , किन्तु प्रागुपयोगरूप एवाऽऽगमो नास्ति, लब्धितस्तु विद्यत एव, अत्र तूभयखरूपोऽपि नास्ति, कारणमात्रस्यैव सत्त्वात् , इति विशेषः ॥ इति गाथार्थः॥४५॥ तदेवं दर्शितं ज्ञशरीर-भव्यशरीरलक्षणं नोआगमतो द्रव्यमङ्गलभेदद्वयम् , सांप्रतं ज्ञशरीर-भव्यशरीरव्यतिरिक्तखरूपं तत्तृतीयभेदमुपदर्शयन्नाह जाणय-भव्वसरीराऽइरित्तमिह दव्वमङ्गलं होई । जा मङ्गल्ला किरिआ तं कुणमाणो अणुवउत्तो ॥ ४६॥ इह तावद् भावतः परमार्थतो मङ्गलं द्विविधम्-जिनप्रणीत आगमः, तत्पणीता मङ्गल्या प्रत्युपेक्षणादिक्रिया च । इतश्च पूर्वमागमतो नोआगमतश्च यद् द्रव्यमङ्गलमुक्तं तत्सर्वमागममङ्गलापेक्षमेव, ज्ञशरीर-भव्यशरीरव्यतिरिक्तं तु द्रव्यमङ्गलं मङ्गल्यक्रियामेवाऽऽश्रित्य भणिष्यत इति परिभावनीयम् । अथ गाथार्थों व्याख्यायते- तत्र शरीर-भव्यशरीराभ्यां व्यतिरिक्तमिह द्रव्यमङ्गलं भवति । कः?, इत्याह- अनुपयुक्तः, तां कुर्वाणो या । किम् ?, इत्याह-या प्रत्युपेक्षण-प्रमार्जनादिका माल्या क्रिया । इदमुक्तं भपति- योऽनुपयुक्तो जिनप्रणीतां मङ्गलरूपां प्रत्युपेक्षणादिक्रियां करोति, स नोआगमतो ज्ञशरीर-भव्यशरीरातिरिक्तं द्रव्यमङ्गलम् : उपयोगरूपोवाऽऽगमो नास्तीति नोआगमता । ज्ञशरीर-भव्यशरीरयोर्ज्ञानापेक्षा द्रव्यमङ्गलता; अत्र तु क्रियापेक्षा, अतस्तद्व्यतिरिक्तत्वम् , अनुपयुक्तस्य क्रियाकरणात् तु द्रव्यमङ्गलत्वं भावनीयम् , उपयुक्तस्य तु क्रिया यदि गृह्यत तदा भावमङ्गलतैव स्यादिति भावः ।। इति गाथार्थः॥ ४६॥ अथ प्रकारान्तरेणापि प्रस्तुतमङ्गलमाहजें भूयभावमङ्गलपरिणामं तस्स वा जयं जोग्गं । जं वा सहावसोहणवन्नाइगुणं सुवण्णाइ ॥४७॥ तं पि य हु भावमङ्गलकारणओ मङ्गलं ति निद्दिढ । नोआगमओ दव्वं नोसद्दो सव्वपडिसेहे ॥४८॥ नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्यमङ्गलमित्यर्थ इति द्वितीयगाथोत्तरार्धे संबन्धः । किं तत् १, इत्याहयद् भूतभावमङ्गलपरिणामम्, इह भावमङ्गलशब्देन चरणकरणक्रियाकलापोऽभिप्रेतः, तस्य परिणमनं परिणतिः प्रवृत्तिर्भावमङ्गल १ज्ञायक-भव्यशरीरातिरिक्तमिह द्रव्यमङ्गलं भवति । या मङ्गल्या क्रिया तां कुर्वाणोऽनुपयुक्तः ॥ ४६॥ २ यद् भूतभावमङ्गलपरिणाम, तस्य वा यद् योग्यम् । यद् वा स्वभावशोभनवर्णादिगुणं सुवर्णादि ॥ ७ ॥ तदपि च यस्माद् भावमङ्गलकारणतो मङ्गलमिति निर्दिष्टम् । नोआगमतो व्यं नोशब्दः सर्वप्रतिषेधे ॥ ४ ॥ ॥३४॥ Jan Education Internati For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy