SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ विशे० ॥३५॥ परिणामः, भूतः पूर्व संजातो भावमङ्गलपरिणामो यस्य तद् भूतभावमङ्गलपरिणामम् ; सांपतं तु तच्छ्न्य म् , तत्पुनः कस्यापि शरीर जीवद्रव्यं वा तद् नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलं बोद्धव्यम् । 'तस्स वा जयं जोग्गं ति' अथवा तस्य यथोक्तस्य भावमङ्गलपरिणामस्य यद् योग्यमर्ह शरीरं जीवद्रव्यं वा, तद् नोआगमतो शरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । अथवा यत् स्वभावत एव शोभनवर्णादिगुणं सुवर्णादिकं वस्तु, आदिशब्दाद् रत्न-दध्य-ऽक्षत-कुसुम-मङ्गलकलशादिपरिग्रहः, तदेतज्ज्ञ- भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । ननु कथं तद् मङ्गलम् , इत्याह- 'तं पीत्यादि' हुर्यस्मादर्थे, यस्मात् तदपि सुवर्णादिकं कस्यापि भावमङ्गलकारणत्वाद् मङ्गलं निर्दिष्टम् । यच्च कारणं तद् “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम्" इत्यादिवचनाद् द्रव्यतयाऽपि व्यपदिश्यते, अतो द्रव्यमङ्गलं भवति । नोशब्दः सर्वप्रतिषेधे, आगमस्येह सर्वथैवाऽभावादिति । पूर्व ज्ञ-भव्यशरीरयोः केवलमागमाभावापेक्षं द्रव्यमङ्गलत्वमुक्तम् , अत्र तु क्रियाऽभावमाश्रित्येति भावनीयम् ॥ इति गाथादयार्थः ॥४७॥४८॥ तदेवं प्रतिपादितमागमतो नोआगमतश्च द्रव्यमङ्गलम् । अथ भावमङ्गलमुच्यते, तस्य च लक्षणं नाम-स्थापना-द्रव्याणामिव | भाष्यकृता केनापि कारणेन नोक्तम् । तश्चेत्थमवगन्तव्यम् 'भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभवात्" ॥१॥ इति । अत्राऽयमर्थः- भवनं विवक्षितरूपेण परिणमनं भावः, अथवा भवति विवक्षितरूपेण संपद्यत इति भावः । कः पुनरयम् , इत्याह-वक्तुर्विवक्षिता इन्दन-ज्वलन-जीवनादिका या क्रिया तस्या अनुभूतिरनुभवनं तया युक्तो विवक्षितक्रियानुभूतियुक्तः, सर्वज्ञैः समाख्यातः । क इव, इत्याह- 'इन्द्रादिवत् ' स्वर्गाधिपादिवत् , आदिशब्दाज्ज्वलन-जीवादिपरिग्रहः । सोऽपि कथं भावः', इत्याह- 'इन्दनादिक्रियानुभवात् ' इति, आदिशब्देन ज्वलन-जीवनादिक्रियास्वीकारः । विवक्षितेन्दनादिक्रियान्वितो लोके प्रसिद्धः पारमार्थिकपदार्थो भाव उच्यते । भावश्चासौ मङ्गलं च भावमङ्गलम् , भावतो वा परमार्थतो मङ्गलं भावमङ्गलमिति प्रस्तुतयोजना ॥ एतदपि द्विविधम्- आगमतः, नोआगमतश्च । तत्राऽऽगमतस्तावदाह मंगलसुयउवउत्तो आगमओ भावमंगलं होइ । नोआगमओ भावो सुविसुद्धो खाइयाईओ ॥ ४९ ॥ मङ्गलं च तच्छूतं च मङ्गलश्रुतं मङ्गलशब्दार्थज्ञानमित्यर्थः, तस्मिन्नुपयुक्तो 'वक्ता' इति गम्यते, आगमतो भावमङ्गलं भवति ।।॥३५॥ मालश्रुतोपयुक्त आगमतो भावमङ्गलं भवति । नोआगमती भावः सुविशुद्धः क्षायिकादिकः ।। ४९ ॥ PRASIDOTOSहास www.jaineltrary.org Edu Internation For Personal and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy