SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विशे० ॥३६॥ अत्राह- ननु मङ्गलपदार्थज्ञानोपयोगमात्रेण कथं सर्वोऽपि वक्ता भावमङ्गलमुच्यते ?, तदुपयोगमात्रस्येव तद्रूपताया युक्तिसंगतत्वात् , न याग्निज्ञानोपयुक्तो माणवकोऽग्निरेव भवितुमर्हति, दाह-पाकादिक्रियाकरणप्रसङ्गादिति । अत्रोच्यते- उपयोगः, ज्ञानं, संवेदन, प्रत्यय इतिबृहद्वत्तिः। तावदनान्तरम् , अर्थाभिधानप्रत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, बाह्यः पृथुबुनोदराऽऽकारोऽर्थोऽपि घट उच्यते, तद्वाचकमभिधानमपि घटोऽभिधीयते, तज्ज्ञानरूपः प्रत्ययोऽपि घटो व्यपदिश्यत इत्यर्थः, तथा हि लोके वक्तारो भवन्ति-किमिदं पुरतो दृश्यते ?, घटा; किमसौ वक्ति, घटम्; किमस्य चेतसि स्फुरति ?, घटः । एवं च सति यद् घट इति ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा यदि ज्ञानज्ञानिनोरव्यतिरेको न स्यात् तदा ज्ञाने सत्यपि ज्ञानी नोपलभेत वस्तुनिवहम् , अतन्मयत्वात् , प्रदीपहस्तान्धवत् , पुरुषान्तरवद् वा । न चाऽनाकारं तज्ज्ञानम् , पदार्थान्तरवद् विवक्षितपदार्थस्याऽप्यपरिच्छेदप्रसङ्गात् । अपिच, घटादिज्ञान--तद्वतोय॑तिरेके बन्धाद्यभावः पामोति, यथा हि ज्ञाना-ऽज्ञान-सुख-दुःखादिपरिणामस्याऽन्यत्वे आकाशस्य बन्धादयो न भवन्ति, एवं जीवस्यापि न भवेयुरिति भावः ॥ आह-यदि घटोपयोगानन्यवाद् देवदत्तोऽपि घटा, अग्न्युपयोगानन्यत्वाच्च माणवकोऽप्यग्निः, तर्हि जलाहरण-दाह-पाकाद्यर्थक्रियामसङ्गः । तदयुक्तम् , न हि सर्वोऽपि घटो जलाहरणं करोति, नापि समस्तोऽप्यग्निदाह--पाकाद्यर्थक्रियां साधयति, कोणेऽवाङ्मुखीकृतघटेन भस्मच्छन्नवाहिना च व्यभिचारात् । न चासो न घटः, नाग्निा , लोकमतीतिबाधाप्रसङ्गात् । तस्माद् मङ्गलपदार्थज्ञानोपयोगाऽनन्यत्वादागमतस्तदुपयुक्तो भावमालमिति स्थितम् ॥ नोआगमतस्तु आगमस्य सर्वनिषेधमाश्रित्य सुविशुद्धः प्रशस्तः क्षायिक-क्षायोपशामिकादिको भावो भावमङ्गलम् , भाव एव मङ्गलं भावमङ्गलमिति कृत्वा । उपलक्षणव्याख्यानादागमवर्जज्ञानचतुष्टय-दर्शन-चारित्राणि च नोआगमतो भावमङ्गलतया वाच्यानि; भावतः परमार्थतो मङ्गलं भावमङ्गलमिति कृत्वा ॥ इति गाथार्थः ।। ४९॥ प्रकारान्तरेणाऽपि नोआगमतो भावमङ्गलमाह-- अहवा सम्मइंसण-नाण--चरित्तोवओगपरिणामो । नोआगमओ भावो नोसदो मिस्सभावम्मि ॥५०॥ अथवा प्रतिक्रमण-प्रत्युपेक्षणादिक्रियां कुर्वाणस्य यो ज्ञान-दर्शन-चारित्रोपयोगपरिणामः, स नोआगमतो भावो भावमङ्गलं भवति । नोशब्दश्चाऽव मिश्रवचनः, यस्माद् नाऽसौ ज्ञान--दर्शन-चारित्रोपयोगपरिणामः केवल एवाऽऽगमः, चारित्रादेरपि सद्भावात् , ॥३६॥ नाऽप्यनागम एव, ज्ञानस्याऽपि विद्यमानत्वात् , इति मिश्रता ॥ इति गाथार्थः ॥ ५० ॥ १ अथवा सम्पग्दर्शन-ज्ञान--चारित्रोपये गपरिणामः । नोआगमतो भावो नोशब्दो मिनभावे ॥ ५० ॥ For Pesond ere
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy