SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ३७ ॥ Jain Education International अथाऽन्येन प्रकारेणाह- अहवेह नमुक्काराइनाण - किरिआविभिस्सपरिणामो । नोआगमओ भण्णइ जम्हा से आगमो देसे ॥ ५१ ॥ अथवेह नोआगमतो भावमङ्गलाधिकारे नमस्करणं नमस्कारोऽर्हदादिप्रणतिरित्यर्थः, स आदिर्येषां स्तोत्रादीनां ते नमस्कारादयस्तेषु ज्ञानोपयोगो नमस्कारादिज्ञानम्, क्रिया शिरसि करकमलमुकुल विधानादिका, नमस्कारादिज्ञानं च क्रिया च नमस्कारादिज्ञानक्रियेताभ्यां विमिश्रासौ परिणामश्च । स किम् ?, इत्याह- 'नोइत्यादि' चैत्यवन्दनाद्यवस्थायां यो नमस्कारादिज्ञान - क्रियामिश्रितपरिणामः स नोआगमतो भावमङ्गलं भण्यत इत्यर्थः । कुतः १, इत्याह- यस्मात् ' से ' तस्यैव भावतः परिणामस्याऽऽगमो नमस्कारादिज्ञानोपयोगलक्षणो देशे एकदेशेऽवयवे- वर्तते, नोशब्दश्चे हैकदेशवचनः । इति गाथार्थः ॥ ५१ ॥ तदेवमुपदर्शितं नाम - स्थापना - द्रव्य भावभेदतश्चतुर्विधं मङ्गलम् । एतेषु च नामादिमङ्गलेष्वाद्यत्रय स्याऽन्योऽन्यमभेदं पश्यन् परः प्रेरयति- अभिहाणं दव्वत्तं तयत्थसुन्नत्तणं च तुल्लाई । को भाववजिआणं नामाईणं पइविसेसो ? ॥ ५२ ॥ भाववर्जितानां भावमेकं वर्जयित्वा शेषाणां नामादीनां नाम स्थापना- द्रव्याणामित्यर्थः कः प्रतिविशेषः १ न कश्चिदित्यर्थः । कुतः १, इति चेत् । उच्यते यत एतानि त्रिष्वपि तुल्यानि । कानि पुनस्तानि ?, इत्याह- अभिधानं तावद् नाम त्रिष्वपि तुल्यम्, नामवति पदार्थे, स्थापनायां द्रव्ये च मङ्गलाभिधानमात्रस्य सर्वत्र भावात् । तथा द्रव्यस्वमपि त्रिष्वपि तुल्यम्, यतो " जैस्स णं जीवस्स वा अजीवस्स वा मंगलं ति नाम कीरइ " इत्यादिवचनाद् नामनि तावद् द्रव्यमेवाऽभिसंबध्यते, स्थापनायामपि " यत् स्थाप्यते " इति वचनाद् द्रव्यमेवाऽऽयोज्यते, द्रव्ये तु द्रव्यत्वं विद्यत एव इति त्रिष्वपि द्रव्यत्वस्य तुल्यता । तथा तदर्थशून्यत्वं च भावार्थशून्यत्वं च त्रिष्वपि समानम्, नाम-- स्थापना - द्रव्येषु भावमङ्गलस्याभावात् । तस्मादभिधान- द्रव्यत्व- भावार्थशून्यत्वानां समानत्वाद् नाम-स्थापना- द्रव्याणां परस्परमभेदः, भावे तु तदर्थशून्यत्वं नास्तिः इत्येतावताऽसौ नामादिभ्यो विशेष्यत इति भावः ॥ इति गाथार्थः ॥ ५२ ॥ परेणैवमविशेषे प्रेरिते यो विशेषः, तमभिधित्सुः मूरिराह १ अथवेह नमस्कारादिज्ञान क्रियाविमिश्रपरिणामः । नोआगमतो भग्यते यस्मात् तस्याऽऽगमो देशे ॥ ५१ ॥ २ अभिधानं द्रव्यत्वं तदर्थशून्यत्वं च तुल्यानि । को भाववर्जितानां नामादीनां प्रतिविशेषः १ ॥ ५२ ॥ ३. यस्य ननु जीवस्य वाऽजीवस्यं वा मङ्गलमिति नाम क्रियते । For Personal and Private Use Only वृहद्वृत्तिः । ॥ ३७ ॥ www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy