________________
बृहद्वत्तिः ।
SHNAHANA
H३८॥
आगारोऽभिप्पाओ बुद्धी किरिया फलं च पाएण । जह दीसइ ठवणिंदे न तहा नामे न दबिदे ॥ ५३ ॥ विशे० यथा स्थापनेन्द्रे आकारो लोचनसहस्र-कुण्डल-किरीट-शचीसनिधान-करकुलिशधारण-सिंहासनाऽध्यासनादिजनितातिशयो देहसौERन्दर्यभावो दृश्यते; तथा स्थापनाकर्तुश्च यथा सद्भूतेन्द्राभिप्रायो विलोक्यते; तथा द्रष्टुश्च यथा तदाकारदर्शनादिन्द्रबुद्धिरुपजायते; यथा
चैनमुपसेवमानानां तद्भक्तिपरिणतबुद्धीनां नमस्करणादिका क्रिया संवीक्ष्यते; फलं च यथा प्रायेणोपलभ्यते पुत्रोत्पत्त्यादिकम् , न तथा FOR नामेन्द्र नाऽपि द्रव्येन्द्रे । ततो नाम-द्रव्याभ्यां तावद् व्यक्त एव भेदः स्थापनाया इति भावः ।। इति गाथार्थः ।। ५३ ॥
तदेवं स्पष्टतया लक्ष्यमाणत्वादादावेव नाम-द्रव्याभ्यां स्थापनाया भेदमभिधाय नाम-स्थापनाभ्यां द्रव्यस्य भेदमभिधित्सुराहभोवस्स कारणं जह दव्वं भावो अ तस्स पज्जाओ । उवओग-परिणइमओ न तहा नाम नवा ठवणा ॥५४॥
यथाऽनुपयुक्तवक्तृप्रभृतिकं साधुद्रव्येन्द्रादिकं वा द्रव्यं भावस्योपयोगरूपस्य भावेन्द्रपरिणतिरूपस्य वा यथासंख्येन कारणं निमित्तं भवति, यथा च 'उवओग--परिणइमओ त्ति उपयोगमयो भावेन्द्रपरिणतिमयश्च भावो यथासंख्येन तस्याऽनुपयुक्तवक्तृमभृतिकस्य साधुद्रव्येन्द्रादिकस्य वा द्रव्यस्य पर्यायो धर्मो भवति, न तथा नाम, नाऽपि स्थापनेति । इदमुक्तं भवति- यथाऽनुपयुक्तो वक्ता द्रव्यं कदाचिदुपयुक्तत्वकाले तस्योपयोगलक्षणस्य भावस्य कारणं भवति, सोऽपि वोपयोगलक्षणो भावस्तस्याऽनुपयुक्तवक्तृरूपस्य द्रव्यस्य पर्यायो भवति, यथा वा साधुजीवो द्रव्येन्द्रः सन् भावेन्द्ररूपायाः परिणतेः कारणं भवतिः सोऽपि वा भावेन्द्रपरिणतिरूपो भावस्तस्य साधुजीवद्रव्येन्द्रस्य पर्यायो भवति, न तथा नाम-स्थापने । अतस्ताभ्यां द्रव्यस्य भेदः, नाम्नस्तु स्थापना-द्रव्याभ्यां भेदः सामादेवाऽवसीयत इति । तदेवं यद्यपि परप्रेरितप्रकारेण नाम स्थापना-द्रव्याणामभेदः, तथाप्युक्तरूपेण प्रकारान्तरेण भेदः सिद्ध एव, न हि दुग्ध-तक्रादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्यादिनाऽपि न भेदः, अनन्तधर्माध्यासितत्वाद् वस्तुन इति भावः ॥ इति गाथार्थः ॥५४॥ तदेवं भेदव्याख्यापक्षे समर्थिते भूयोऽप्यपरेण प्रकारेणाऽह परःइह भावो चिय वत्थु तयत्थसुन्नेहिं किं व सेसेहिं ? । नामादओ वि भावा जं ते वि हु वत्थुपज्जाया ॥५५॥
, आदारोऽभिप्रायो बुद्धिः क्रिया फलं च प्रायेण । यथा दृश्यते स्थापनेन्द्रे न तथा नानि न द्रव्येन्द्रे ॥ ५३ ॥ २ भावस्य कारण यथा द्रव्यं भावश्च तस्य पर्यायः । उपयोग-परिणतिमयो न तथा नाम मवा स्थापना ॥ ५५ ॥ ३ इद भाव एष वस्तु तदर्थशून्यैः किं वा शेषः । नामादयोऽपि भावा यत् तेऽपि खलु वस्तुपर्यायाः ॥ ५५ ॥
माफक
पाककसकसकसकसकसकसकस