SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विशेष इह नामादिविचारे प्रक्रान्ते भाव एव वस्तु, विवक्षितार्थक्रियासापकत्वात् , उभयसंमतवस्तुवत् । न हि भावेन्द्रवद् विवक्षितार्थसाधनसमर्था गोपालदारकाद्या नामेन्द्रादयः, अतः किमत्र शेषैर्भावार्थशून्यैर्नामादिभिः ? न किञ्चिदित्यर्थः । अत्रोत्तरमाह-'नामा दओ इत्यादि' इदमुक्तं भवति- यदि सामान्येनैव भावो वस्तुत्वेनाऽभ्युपगम्यते, तदा सिद्धसाध्यता, यतो नामादयोऽपि, आदिश॥ ३९ ॥ ब्दात् स्थापना-द्रव्यपरिग्रहः, भावाः भावविशेषा इत्यर्थः । कुतः १, इत्याह- यद् यस्मात् तेऽपि नामादयो वस्तुनः पर्याया धर्माः, तथाहि- अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिकं भेदचतुष्टयमपि प्रतीयते-किमनेन नामेन्द्रो विवक्षितः, आहोखित् स्थापनेन्द्रः, | द्रव्येन्द्रः, भावेन्द्रो वा ? इति । ततः सामान्यस्येन्द्रवस्तुनश्चत्वारोऽप्यमी पर्यायाः, इति नामादयोऽपि भावविशेषा एव, इति भावस्य वस्तुत्वसाधने न किश्चिद् नः श्रूयते; पर्यायः, भेदः, भाव इत्यनान्तरत्वात् । अथ विशिष्टार्थक्रियासाधकं भावेन्द्रादिकं भावमाश्रित्य वस्तुत्वं साध्यते, तथापि न काचित् क्षतिः, यतो भावेन्द्रादेर्भावस्य विशिष्टार्थक्रियानिवर्तकत्वे नामेन्द्रादिपर्यायाणामपि तद् द्रष्टव्यमेव, द्रव्यरूपतया पर्यायाणां परस्परमभेदात् ॥ इति गाथार्थः ॥ ५५॥ अथवा भावमङ्गलादिकारणत्वाद् नामादीन्यपि भावमङ्गलादिरूपाण्येव, इति दर्शयन्नाह अहवा नाम--ठवणा-दव्वाई भावमङ्गलंगाइं । पाएण भावमङ्गलपरिणामनिमित्तभावाओ ॥ ५६ ॥ __ अथवा नाम-स्थापना-द्रव्याणि भावमङ्गलस्यैवाऽङ्गानि कारणानि । कुतः१, इत्याह- 'पारण इत्यादि' भावमङ्गलपरिणामो भावमङ्गलोपयोगो भावमङ्गलसाध्वादिपरिणतिरूपो वा, तनिमित्तभावात् तत्कारणत्वादित्यर्थः । यच्च यस्य कारणं तत् तब्ध| पदेशं लभत एव, यथा 'आयुर्घतम् ' 'रूपको भोजनम्' इत्यादि । क्लिष्टकर्मणां केषाश्चिद् नामादीनि भावमङ्गलकारणानि न भव त्यपि, इति प्रायो ग्रहणम् । मङ्गलविचारश्चेह प्रक्रान्तः तेन भावमङ्गलकारणानि नामादीन्युक्तानि, यावता भावेन्द्रादेरपि तानि कारण त्वेन द्रष्टव्यान्येव । तस्माद् भावमङ्गलादिकारणत्वाद् नामादीन्यपि तद्रूपाण्येव, इति भावस्य वस्तुत्वसाधने नामादीनामपि तत्कारAणत्वात् तद् न झूयते ॥ इति गाथार्थः ॥५६॥ अथ नामादीनां भावमङ्गलकारणत्वे उदाहरणान्याहजैह मङ्गलाभिहाणं सिद्ध विजयं जिणिंदनामं च । सोऊण, पेच्छिऊण य जिणपडिमालक्खणाईणि॥५७॥ , अथवा नाम--स्थापना-द्रव्याणि भावमङ्गलाङ्गानि । प्रायेण भावमङ्गलपरिणामनिमित्तभावात् ॥ ५६ ॥ P २ यथा मङ्गलाभिधानं सिद्धं विजयं जिनेन्द्रनाम च । श्रुत्वा, प्रेक्ष्य च जिनप्रतिमालक्षणादीनि ॥ ५७॥ ३९॥ Jan Education Internati For Personal and Private Use Only HAMww.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy