________________
विशे० ॥३२॥
अत्राऽर्थे उपपत्तिमाह
'हेऊ विरुद्धधम्मत्तणा हि जीवो व्व चेअणारहिओ। न य सो मङ्गलमिळं तयत्थसुन्नोत्ति पावं व ॥४३॥
जानननुपयुक्तश्चेत्येतदवस्तु इत्यस्यामनन्तरातिक्रान्तगाथापर्यन्तकृतप्रतिज्ञायामयं हेतुः। कः?, इत्याह-विरुद्धधम्मत्तणा हि त्ति' विरुद्धौ धौं यत्र तत् तथा तद्भावस्तस्माद् विरुद्धधर्मत्वादिति । दृष्टान्तमाह- यथा जीवश्चेतनारहितः । इदमुक्तं भवति- यथा जीवश्चेतनारहितश्च, माता च वन्ध्या चेत्यादि विरुद्धधर्माध्यासादवस्तु, एवं ज्ञायकश्चाऽनुपयुक्तश्चेत्येतदप्यवस्त्वेव । भवतु वा ज्ञायकोऽनुपयुक्तश्च, तथापि नास्माकमसौ मङ्गलत्वेनेष्टः, तदर्थशून्यत्वाद् मङ्गलार्थशून्यत्वात् , पापवदिति । भावमङ्गलग्राहिणो कमी कथं द्रव्यमङ्गलमिच्छन्ति ?, इति भावः । इति गाथार्थः ॥४३॥
तदेवं विचारितं नौद्रव्यमङ्गलम् , तथा च सति समर्थितमागमतो द्रव्यमङ्गलम् । अथ नोआगमतस्तदभिधीयते । तच्च ज्ञशरीरभव्यशरीर-तव्यतिरिक्तभेदात् त्रिधा । तत्र ज्ञशरीर-भव्यशरीरलक्षणभेदद्वयमाह
मैंगलपयत्थजाणयदेहो भव्वस्स वा सजीवोत्ति । नोआगमओ दव्वं आगमरहिओ त्ति जं भणिअं॥४४॥
'नोआगमओ दवं त्ति' नोआगमतो ज्ञशरीरं द्रव्यमङ्गलमित्यर्थः । कः ?, इत्याह- मङ्गलपदार्थज्ञस्य देहः, इदमुक्तं भवतिइह मङ्गलपदार्थः पूर्वं येन स्वयं सम्यग् विज्ञातः; परेभ्यश्च प्ररूपितः, तस्य संबन्धी जीवविप्रमुक्तः सिद्धशिलातलादिगतो देहोऽतीतकालनयानुवृत्त्याऽतीतमङ्गलपदार्थज्ञानाऽऽधारत्वाद् नोआगमतो द्रव्यमङ्गलमुच्यते । नोशब्दस्यह सर्वनिषेधवचनत्वात् ; आगमस्य च सर्वथात्राऽभावाद् नोआगमता द्रष्टव्या, अतीतमङ्गलपदार्थज्ञानलक्षणाऽऽगमपर्यायकारणत्वात् तु द्रव्यमङ्गलता, यथाऽतीतघृताधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटतेति । 'भव्वस्स व त्ति' वाशब्दो द्वितीयपक्षसमुच्चये, भव्यस्य च मङ्गलपदार्थज्ञानयोग्यस्य संबन्धी 'देहः' इति वर्तते, स जीवः सचेतनो नोआगमतो भव्यशरीरद्रव्यमालमित्यर्थः । इदमत्र हृदयम्- य इदानीं मङ्गलपदार्थ न जानीते, भविष्यति तु काले ज्ञास्यति तस्य संबन्धी सचेतनो देहो भविष्यत्कालनयाऽनुवृत्त्या भविष्यन्मङ्गलपदार्थज्ञानाधारत्वाद् नोआगमतो भव्यशरीरद्रव्यमङ्गलमिति । अत्रापि नोशब्दस्य सर्वनिषेधपरत्वात् ; आगमस्य चेदानीमभावाद् नोआगमता समवसेया । भविष्यत्काले
हेतुर्विरुद्धधर्मत्वाद् हि जीव इच घेतनारहितः । न च स मङ्गलमिष्टं तदर्थशून्य इति पापभिव ॥ ३ ॥ २ मङ्गलपदार्थज्ञायकदेहो भय्यस्य वा सजीव इति । नोआगमतो द्रव्यमागमरहित इति यद् भणितम् ॥ ४५ ॥
DOGSecreoRRP
rammarASTARTER
For Peso
Use Only