SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ बदत्तिः। Store ऋजु अतीताऽनागतपरिहारेण परकीयपरिहारेण वाऽकुटिलं वस्तु सूत्रयतीति ऋजुसूत्रो नयस्तस्य स्खकमात्मीयमेव, तथा सांपतं विशेच वर्तमानक्षणभाव्येव यद् द्रव्यमङ्गलं तदेवैकमभिमतम् । अनभिमतप्रतिषेधमाह-नातीतम् , अतिक्रान्तसमयभावि, नाऽप्यनुत्पन्नं भविष्य- समयभावि द्रव्यमङ्गलम् , अस्येष्टम् । 'परकं व परकीयं वा यद् द्रव्यमङ्गलं तदप्यस्य नेष्टम् , विवक्षितैकमज्ञापकस्याऽऽत्मानं विहाय यत् ॥३१॥ परस्मिन् वर्तते तदपि द्रव्यमङ्गलमसौ नेच्छतीत्यर्थः । मन्दमतिशिक्षावबोधार्थश्वाऽनभिमतप्रतिषेधः, अन्यथा ह्यभिमते कथितेऽनभिमतमर्यापत्तितो गम्यत एव ॥ इति गाथार्थः॥४०॥ अमुमेवार्थ प्रयोगोपदर्शनद्वारेण समर्थयन्नाह नौतीतमणुप्पन्नं परकीयं वा पओअणाभावा । दिनैतो खरसिंगं परधणमहवा जहा विफलं ॥४॥ अतीतमनुत्पन्नं वस्तु नास्तीति प्रतिज्ञा, प्रयोजनस्य विवक्षितफलस्य तत्राऽभावात् सर्वप्रयोजनाऽकरणादित्यर्थ इत्ययं हेतुः, दृष्टान्तस्तु खरभृङ्गम् , असत्वे चातीताऽनागतयोर्द्रव्यमङ्गलता दूरोत्सारितैव, धर्मिसत्त्व एव धर्माणामुपपद्यमानत्वादिति । द्वितीयप्रयोगः क्रियते-- परकीयमपि यज्ञदत्तसंबन्ध्यपि वस्तु देवदत्तापेक्षया नास्त्येव, प्रयोजनाऽकरणात् खरविषाणवदिति हेतुदृष्टान्तौ तावेव, अथवा यथा परस्य यज्ञदत्तस्य धनं देवदत्तापेक्षया विफलं प्रयोजनाऽसाधकं सद् नास्ति, तथा सर्वमपि परकीयं नास्तीति द्वितीयो दृष्टान्तः । इति कुतः परकीयस्याऽपि द्रव्यमङ्गलत्वम् ? ॥ इति गाथार्थः ॥४१॥ शब्द-समभिरूलै-वभूतास्तु विशुद्धनयत्वादागेमतो द्रव्यमङ्गलं नेच्छन्त्येव कस्मात् ?, इत्याहजाणं नाणुवउत्तोऽणुवउत्तो वा न याणइ जम्हा । जाणतोऽणुवउत्तोत्ति बिंति सहादयोऽवत्थु ॥ ४२ ॥ जम्हा इति यस्मात् जाननवबुध्यमानो 'मङ्गलं' इति गम्यते, नानुपयुक्तो न तज्ज्ञानोपयोगशून्यो भवति, ज्ञायकस्य ज्ञानोपयोगनान्तरीयकत्वात् । अनुपयुक्तो वा तत्र न तज्जानीते न तस्य ज्ञायकोऽसौ व्यपदिश्यते, अज्ञायकत्वाभिमतवत् , काष्ठादिवद् वेत्यर्थः । तस्माज्जानन्ननुपयुक्तश्चेत्येतदप्यवस्तु असदभाव इति यावत् । एतद् ब्रुवते शब्दादयः शब्द-समभिरूदै-वंभूतनयाः ॥ इति गाथार्थः॥४२॥ नातीतमनुत्पत्रं परकीयं वा प्रयोजनाभावात् । दृष्टान्तः खरचकं परधनमथवा यथा विफलम् ॥ ४१ ॥ २ जानन् नाऽनुपयुक्तः अनुपयुक्तो वा न जानाति यस्मात् । जानसनुपयुक्त इति झुवते शब्दादयोऽवस्तु ॥ ४२ ॥ Foresonant s Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy