________________
बृहद्वृत्तिः ।
अत्र पर:पाहविशे० 'तेसिं तुल्लमयत्ते को णु विसेसोऽभिहाणओ अन्नो ? । तुल्लत्ते वि इहं नेगमस्स वत्थंतरे भेओ ॥ ३८ ॥
तयो गमव्यवहारयोस्तुल्यमतत्वे उक्तन्यायेन विशेषवादितया सदृशाभिप्रायत्वे सति 'णु' वितर्के, अभिधानं नाम ततोऽFol न्यस्तद् वर्जयित्वाऽपरः को विशेषः ? न कश्चिदित्यर्थः । एको नैगमः; अपरस्तु व्यवहार इत्येवमनयो मैव भिद्यते न त्वभिप्राय
इति भावः । आचार्य आह- 'तुल्लत्ते' इत्यादि, इह विशेषाऽभ्युपगमे यद्यपि नैगमस्य व्यवहारेण सह तुल्यत्वं सदृशाभिप्रायत्वम् , | तथापि तस्मिन् सत्यपि वस्त्वन्तरे सामान्यादिके भेदो नानात्वमस्त्येव ।। इति गाथार्थः॥ ३८॥
अथवा नैगमव्यवहारयोरनेन तुल्यमतत्वाऽऽख्यापनेन सामान्यविशेषग्राहकस्य नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावः सूचितो द्रष्टर इति दर्शयन्नाह
जो सामण्णग्गाही स नेगमो संगहं गओ अहवा । इयरो ववहारमिओ जो तेण समाणनिदेसो ॥३९॥ ___ अथवेति प्रकारान्तरेण समाधानमुच्यत इत्यर्थः । तत्र नैगमस्तावत् सामान्यं मन्यते विशेषांश्च । ततो यः सामान्यग्राही नैगमः स संग्रहं गतः प्राप्तोऽन्तर्भूत इति यावत् , इतरस्तु विशेषग्राही स व्यवहारनयमितः प्राप्तोऽन्तर्गतो यो नैगमनयस्तेन सह व्यवहारनयस्याऽयं समाननिर्देशः 'ज नेगमववहारा' इत्यादिना तुल्यनिर्देशः । ततश्च 'तेसि तुल्लमयत्ते को णु विसेसो' इत्यादिना यदेकत्वं परेण | प्रेरितं तदस्माकं न क्षतिमावहति, नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावस्येष्टत्वेन सिद्धसाधनादिति भावः । यद्येवं नैगमः संख्याया| स्त्रुव्यति, तथा च सति षडेव नयाः प्रसजन्तीति चेत् । मौत्सुक्यं भजख, सर्वमत्रार्थे पुरस्ताद् वक्ष्यामः ॥ इति गाथार्थः ॥ ३९ ॥
अथ ऋजुसूत्रनयमतेन द्रव्यमङ्गलं विचारयितुमाहउज्जुसुअस्स सयं संपयं च जं मंगलं तयं एक्कं । नातीतमणुप्पन्नं मंगलमिटुं परकं व ॥ ४०॥
१ तयोस्तुल्यमतत्वे को नु विशेषोऽभिधानतोऽन्यः । तुल्यत्वेऽपहि नैगमस्य वस्त्वन्तरे भेदः ॥ ३८ ॥ २ यः सामान्यग्राही स नैगमः संग्रहं गतोऽधवा । इतरो व्यवहारमितो यस्तेन समाननिर्देशः ॥ ३९ ॥ ३ गाथा ३७ । ४ गाथा ३८ । मसूत्रस्य स्वकं सांप्रतं च यत् मङ्गलं तदेकम् । नातीतमनुत्पञ्चं मङ्गलमिष्टं परकीयं वा ॥४॥
Jan Education intem
For Personal and Private Use Only
EMAIwww.jaineltrary.ary