SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ERSTORE बदचिः। विशे. ॥२९॥ सहसासम्मका स्प ननु भोः सामान्यवादिन् ! भवताऽपि वनस्पतिसामान्यं बकुलाऽशोक-चम्पक-नाग-पुन्नागा-ऽऽम्र-सर्जा-ऽर्जुनादिविशेषेभ्योऽर्थान्तरं वाऽभ्युपगम्येत, अनर्थान्तरं वा । यद्यर्थान्तरम् , तर्हि नास्त्येव तद् विशेषव्यतिरेकेण, उपलब्धिलक्षणप्राप्तस्य तस्योपलम्भव्यवहाराभावात् , खरविषाणवत् । क एवमाह ?, व्यवहारनयः, उपलक्षणत्वाद् विशेषवादी नैगमश्च । एतौ हि लोकव्यवहारानुयायिनौ, तद्वयवहारश्च प्रायो विशेषनिष्ठ एव, इति विशेषानेव समर्थयत इति भावः। अथानुपलब्धिलक्षणमाप्तं तदभ्युपगम्यते, तथापि नास्ति, विशेषेभ्यः सर्वथाऽन्यत्वात् , गगनकुसुमवदिति । अथ विशेषेभ्योऽनन्तरं तदिति द्वितीयपक्षः, तर्हि विशेषा एव तत् , तेभ्योऽनर्थान्तरभूतत्वात् , विशेषाणामात्मस्वरूपवदिति । यदि च विशेषेष्वपि सामान्योपचारः क्रियते, तर्हि न काचित् क्षतिः, न ह्यौपचारिकमेकत्वं तात्त्विकमनेकत्वं बाधते ॥ इति गाथार्थः ॥ ३५ ॥ एतदेव समर्थयते याईएहिंतो को सो अण्णो वणस्सई नाम । नत्थि विसेसत्यंतरभावाओ सो खपुप्फ व ॥ ३६॥ चूतादिभ्यो विशेषेभ्योऽन्यः को नाम वनस्पतिः, यो व्रण-पिण्डी-पादलेपादिके लोकव्यवहारे उपयुज्येत? न कोऽपीत्यर्थः । तस्मात् समस्तलोकसंव्यवहारानुपयोगित्वाद् नास्ति सामान्यम् , खपुष्पवत् इति पूर्वोक्तमेवार्थ निगमनद्वारेणाह-'नत्थीत्यादि' तस्माद् नास्त्यसौ सामान्यवादिनाऽभ्युपगम्यमानो वनस्पतिः सद्रूपेभ्यो विशेषेभ्योऽर्थान्तरभावात् खपुष्पवत् । सद्रूपेभ्यो हि विशेषेभ्योऽ| थान्तरं भवत् असद्रूपमेव भवति तथाभूतं च नास्त्येव खपुष्पवत् ।। इति गाथार्थः॥ ३६॥ किं पुनः कारणं येन नैगमव्यवहारौ विशेषान् समर्थयतः ?, इत्याह जे नेगमववहारा लोअव्ववहारतप्परा सो य । पाएण विसेसमओ तो ते तग्गाहिणो दो वि ॥ ३७॥ ___यद् यस्माद् नैगमव्यवहारौ लोकव्यवहारतत्परौ, स च लोकव्यवहारस्त्यागाऽऽदानादिकः प्रायेण विशेषमयो विशेषनिष्ठ एव दृश्यते, सामान्यस्य व्रणपिण्ड्यादौ लोकेऽनुपयोगात् । 'वनं''सेना' इत्यादौ कचित् कश्चित् कथञ्चित् सामान्यस्याऽपि दृश्यते उपयोगः, इति प्रायोग्रहणम् । यत एवम् , तस्मात् तौ नैगमव्यवहारौ द्वावपि तद्ग्राहिणौ विशेषाभ्युपगमपरौ ॥ इति गाथार्थः ॥३७॥ चूतादिभ्यः कः सोऽन्यो वनस्पतिर्नाम' । नास्ति विशेषार्थान्तरभावात् स खपुष्पभिव ॥ ३६॥ २ यद् नैगमव्यवहारी लोकव्यवहारतत्परौ, स च । प्रायेण विशेषमयस्तस्मात् ती तमाहिणी द्वावपि ॥३७॥ Jan Education Inter For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy