________________
इस
विशे
क
चूओ वणस्सइच्चिय मूलाइगुणो त्ति तस्समूहो व्य । गुम्मादओ वि एवं सब्वे न वणस्सइविसिटे॥३३॥ ___'चूतः' आम्रो बनस्पतिरेव वनस्पतिसामान्यं न व्यभिचरतीत्यर्थः, इति प्रतिज्ञा, मूल-कन्द-स्कन्ध-त्वक्-शाखा-प्रवाल-पत्र-पुष्पफल-बीजादिगुणत्वादिति हेतुः, चूतसमूहवदिति दृष्टान्तः; इह यो यो मूलादिगुणः स स वनस्पतिसामान्यरूप एव, यथा चूतसमूहः, मूलादिगुणश्च चूतः, तस्माद् वनस्पतिसामान्यरूप एव, गुल्मादयोऽप्येवं वाच्याः, तथाहि-विशेषवादिना विशेषतयाऽभ्युपगम्यमानो गुल्मोऽपि वनस्पतिसामान्यरूप एव, मूलादिगुणत्वात् , गुल्मसमूहवन , इति । एवमन्येषामपि लतादिविशेषाणां वनस्पतिसामान्यादन्यतिरिक्तत्वं साधनीयम् । तद्व्यतिरेके सर्वत्र मुन्मयत्वादिप्रसङ्गो बाधकं प्रमाणम् । तस्मात् सामान्यमेवाऽस्ति, न विशेषाः ॥ इति गाथार्थः॥३३॥
किश्च
सोमन्नाउ विसेसो अन्नोऽणन्नो व होज, जइ अण्णो।सो नत्थि खपुष्फ पिवऽणण्णो सामन्नमेव तयं ॥३४॥
भो विशेषवादिन् ! सामान्यादु विशेषोऽन्यो वा स्यात , अनन्यो वा ?, इति विकल्पद्वयम् । यद्यायो विकल्पः, तर्हि नास्त्येव विशेषः, निःसामान्यत्वात . खपुष्पवत-इह यद यत सामान्यविनिर्मक्तं तत तद नास्ति, यथा गगनारविन्दम् , सामान्यविरहितश्च विशेषवादिना विशेषोऽभ्युपगम्यते, तस्माद् नास्त्येवाज्यामिति । अथाऽनन्य इति द्वितीयः पक्षः कक्षीक्रियते, हन्त ! तर्हि सामान्यमेवाऽसो, तदनन्यत्वात् , सामान्यात्मवत् , यद् यस्मादनन्यत् तत् तदेव, यथा सामान्यस्यैवाऽऽत्मा, अनन्यश्व सामान्याद् विशेषः, इति सामान्यमेवाऽयमिति । यदि चाऽतिपक्षपातितया सामान्येऽपि विशेषोपचारः क्रियते, तर्हि न कॉचित कचित् क्षतिः, न हयुपचारेणीच्यमानो | भेदस्तात्त्विकमेकत्वं बाधितुमलम् , तस्मात् सामान्यमेवाऽस्ति न विशेषः । इति संग्रहनयमतेन सर्वत्रैकमेव द्रव्यमङ्गलम् ।। इति गाथार्थः॥३४॥
तदेवं संग्रहेण वाभिमते सामान्ये प्रतिष्ठिते विशेषवादिनौ नैगमव्यवहारावाहतुःने विसेसत्थंतरभूअमत्थि सामण्णमाह ववहारो। उवलंभववहाराभावाओ खरविसाणं व ॥ ३५॥ -
१ चूतो वनस्पतिरेव मूलादिगुण इति तत्समूह इव । गुल्मादयोऽप्येवं सर्वे न वनस्पतिविशिष्टाः ॥ ३३ ॥ २ सामान्याद् विशेषोऽन्योऽनन्यो वा भवेत् , यद्यन्यः । स नास्ति खपुष्पमिव, अनन्यः सामान्यमेव तत् ॥ ३४॥ ३ क. 'द्वितीयपक्षः' । क. कदाचित् क्षतिः' । ख. ग. 'काचित् क्षतिः । ५न विशेषार्थान्तरभूतमलि सामान्यमाद व्यवहारः । उपतम्भव्यवहाराभावात् परविषाणमिव ॥१५॥
AASHAN
For Peso
Private Use Only