SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विशे० बहत्तिः । ॥२७॥ सर्वस्मिन्नपि लोके एकमेव द्रव्यमङ्गलम् । सर्वेषां द्रव्यमङ्गलत्वसामान्यादव्यतिरिक्तत्वात् , व्यतिरेके चाऽद्रव्यमङ्गलत्वप्राप्तः, सामान्यस्य च त्रिभुवनेऽप्येकत्वात् ॥ इति गाथार्थः ॥ ३१ ॥ एतदेवाह एवं निच्चं निरवयवमाक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नत्थि विसेसो खपुष्पं व ॥ ३२ ॥ एकमद्वितीयत्वादेकसंख्योपेतं सामान्यम् । एकमपि क्षणिकं स्यात् , तबाह-नित्यमनायि । नित्यमप्याकाशवत् सावयवं | स्यात् , तन्निरवयवत्वे सवितुरुदयाऽस्तमनाऽयोगात् , इत्यत्राह-निरवयवमनंश, पूर्वापरकोटिशून्यत्वादिति । निरवयवमपि परमाणुवत् | सक्रियं स्यात् , अत आह- अक्रिय क्रियारहितम् , परिस्पन्दविनिर्मुक्तत्वादिति । अक्रियमपि दिगादिवत् सर्वगतं न स्यात् , अत्राहसर्वगं च सकललोकाऽचाप्तसत्ताकम् । इदमित्थंभूतं सामान्यमेवास्ति, न तु विशेषः कश्चनाऽपि विद्यते । कुत इत्याह-निःसामान्यत्वात् सामान्यविरहितत्वात् , खपुष्पवत् , यच्चाऽस्ति तत् सामान्यविरहितं न भवति, यथा घटः । तस्मादेकस्माद् द्रव्यमङ्गलसामान्यादव्यतिरिक्तत्वाद् तव्यतिरेके चाऽद्रव्यमङ्गलताप्रसङ्गात् सामान्यस्य च त्रिभुवनेऽप्येकत्वादेकमेव संग्रहनयमते द्रव्यमङ्गलम्, इति स्थितम् ।। इति गाथार्थः ।। ३२॥ अत्र विशेषवादिनयमतस्थितः कश्चिदाह- ननु कथमनेकानि द्रव्यमङ्गलानि न संभवन्ति ?, यथा हि वनस्पतिरित्युक्ते वृक्ष-गुल्म-लता-वीरुदादयो विशेषा एव प्रतीयन्ते; न पुनस्तदतिरिक्तः कश्चिद् वनस्पतिः, एवमिहाऽपि द्रव्यमङ्गलमित्युक्तेऽनुपयुक्ततत्परूपकलक्षणा विशेषा एवाऽवगम्यन्ते न तु तदधिक किश्चित् सामान्यम् , अतः किं शून्य इवाऽस्मिन् जगत्येवमभिधीयते- 'निस्सामन्नत्ताओ नत्थि विसेसो खपुष्पं व' इति ?, इति विशेषवादिना प्रोक्ते सामान्यवादी संग्रहःपाह-ननु यत एव वनस्पतिरित्युक्ते वृक्षादयः प्रतीयन्ते, अत एव ते तदनन्तरभूताः, हस्तस्येवाऽङ्गुलयः, इह यस्मिन्नुच्यमाने यत् प्रतीयते, तत् ततो व्यतिरिक्तं न भवति, यथा हस्त इत्युक्तेङ्गुल्यादयः प्रतीयमाना हस्ताद्न व्यतिरिक्ताः, प्रतीयन्ते च वनस्पतिरित्युक्ते वृक्षादयः, इत्यमी न वनस्पतिव्यतिरिक्ताः, ततो न सामान्यादतिरिक्तः कोऽपि विशेषः समस्ति, इत्येकमेव सर्वत्र द्रव्यमङ्गलमिति । अथोपपत्त्यन्तरेणापि सामान्यवाद्येव वृक्षादीनां सर्वेषामपि वनस्पतिसामान्यरूपतां समर्थयन्नाह १ एकं नित्यं निरवयवमक्रियं सर्वगं च सामान्यम् । निःसामान्यत्वाद् नास्ति विशेषः खपुष्पमिव ॥ ३२ ॥ २ ख. 'पायम्' । ॥२७॥ JainEducationa.Intemat For Personal and Private Use Only Folwww.jainelbrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy