SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ २६ ॥ Jain Educations Interna ts नाणमागमो तो कह दव्वं दव्यमागमो कह णु ? | आगमकारणमाया देहो सदो यतो दव्वं ॥ ३०॥ यदि मङ्गलशब्दार्थज्ञानमागमः तर्हि तद्वक्ताऽसौ कथं द्रव्यमङ्गलम् १, आगमस्य भावमङ्गलत्वेन द्रव्यमङ्गलत्वानुपपत्तेः । अथ द्रव्यम्- द्रव्यमङ्गलमसौ तर्हि आगमः कथम् ? येनाऽऽगमत आगममाश्रित्येत्युच्यतेः द्रव्ये आगमस्याऽभावात् भावे वा भावमङ्गलत्वमसङ्गात् । तस्मादागमतो द्रव्यमङ्गलमिति दूरविरुद्धमिदम् । इति परेणोक्ते आचार्यः प्राह- आगमेत्यादि, इदमुक्तं भवति - आगमत इत्युतेनैतद् भवता बोद्धव्यं यदुत - न साक्षादेवाऽऽगमोऽत्रास्ति, किं तर्हि ?, आगमस्य मङ्गलशब्दार्थज्ञानलक्षणस्य यत् कारणं निमित्तं तदेवेह विद्यत इत्यवगन्तव्यम् । किं पुनस्तदागमस्य कारणमिहाऽवसेयम् ?, इत्याह- अनुपयुक्तस्य वक्तुः संबन्धी आत्मा जीवो देहः शब्दव, जीवशरीरे हि तावदागमस्य कारणम्, तदाधारविरहितस्याऽऽगमस्याऽसंभवात् । शब्दोऽपि प्रत्याय्य शिष्यगताऽऽगमस्य कारणमेव, तमन्तरेण तस्याभावात् । यच्च कारणं तद् द्रव्यं भवत्येव “ भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम् " इत्यादिवचनात्, इत्याह- 'तो त्ति' यत एवम् तस्माद् द्रव्यं द्रव्यमङ्गलमिदमित्यर्थः । यद्यागमकारणमेवेह विद्यते, तर्हि कथमिदमागमो येनाऽऽगमतो द्रव्यमङ्गलं स्यात् ? इति चेत् । उच्यते- आगमस्य कारणभूता आत्मादयोऽपि कारणे कार्योपचारादागमत्वेनोच्यन्ते, भवति च कारणे कार्यव्यपदेशः, यथा - ' तन्दुलान् वर्षति पर्जन्यः ' । तस्मादागमतो द्रव्यमङ्गलं न विरुध्यते ।। इति गाथार्थः ॥ ३० ॥ अथ - "नैत्थि नयेहिं विहूणं सुत्तं अत्थो य जिणमए किंचि आसज्ज उ सोयारं नयेण य विसारओ बूया " ॥ १ ॥ इति वचनाज्जिनमते सर्वेऽपि पदार्था नयैर्विचारणीयाः, इत्यतो द्रव्यमङ्गलमपि नयैर्विचारयन्नाह एैगो मंगलमेगं णेगा गाई णेगमनयस्स । संगहनयस्स एकं सव्वं चिय मंगलं लोए ॥ ३१ ॥ वक्ष्यमाणशब्दार्थस्य नैगमनयस्य मतेनैकोऽनुपयुक्तो मङ्गलशब्दार्थप्ररूपक एक द्रव्यमङ्गलम् अनेके त्वनुपयुक्तास्तत्प्ररूपका अनेकानि द्रव्यमङ्गलानि । अयं हि नयः सामान्यं विशेषांश्वाऽभ्युपगच्छत्येव, तत्र विशेषवादित्वपक्षे एकोऽनुपयुक्त एकं द्रव्यमङ्गलम् ; अनेके त्वनुपयुक्ता अनेकानि द्रव्यमङ्गलानीत्युपपद्यत एव विशेषाणां पृथग्भिन्नत्वादिति । संग्रहनयस्य तु वक्ष्यमाणस्वरूपस्य केवलसामान्यवादिनो मतेन १ यदि ज्ञानमागमस्तस्मात् कथं द्रव्यं द्रव्यमागमः कथं नु ? आगमकारणमात्मा देहः शब्दो यतो द्रव्यम् ॥ ३० ॥ २ नास्ति नयैर्विहीनं सूत्रमर्थ जिनमते किञ्चित् । आसाय तु श्रोतारं नयेन च विशारदो ब्रूयात् ॥ १ ॥ ३ एको मङ्गलमेकमनेकेऽनेकानि नैगमनयस्य । संग्रहनयस्यैकं सर्वमेव मङ्गलं लोके ॥ ३१ ॥ ४ ख. 'युच्यते ' । For Personal and Private Use Only बृहद्वृत्तिः । ॥२६ ॥ www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy