________________
विशे०
SEPPOSसपर
॥२५॥
मुच्यत इति भावः । तथा द्रवति तांस्तान् पर्यायान् गच्छतीति दुः सत्ता तस्या एवाऽवयवो विकारो वेति द्रव्यम् , अवान्तरसत्तारूपाणि हि द्रव्याणि महासत्ताया अवयवो विकारो वा भवन्त्येवेति भावः । तथा गुणा रूपरसादयस्तेषां संद्रवणं संद्रावः समुदायो घटादिरूपो द्रव्यम् । तथा 'भवं भावस्स त्ति-' भविष्यतीति भावस्तस्य भावस्य भाविनः पर्यायस्य यद् भव्यं योग्यं तदपि द्रव्यम्, बृहद्वाच।। राज्यपर्यायाऽर्हकुमारवत् । तथा भूतभावं चेति-भूतः पश्चात्कृतो भावः पर्यायो यस्य तद् भूतभावं तदपि द्रव्यम् , अनुभूतघृताधारत्वपर्यायरिक्तघृतघटवत् । चशब्दाद् भूतभविष्यत्पर्यायं च द्रव्यमिति ज्ञातव्यम् , भूतभविष्यघृताधारत्वपर्यायरिक्तघृतघटवदिति । एतदपि भूतभावं तथा भूतभविष्यद्भावं च कथंभूतं सद् द्रव्यम् , इत्याह- यद् योग्यम् , भूतस्य भावस्य भूतभविष्यतोश्च भावयोरिदानीमसत्वेऽपि यद् योग्यमई तदेव द्रव्यमुच्यते; नाऽन्यत् , अन्यथा सर्वेषामपि पर्यायानामनुभूतत्वादनुभविष्यमाणत्वाच सर्वस्याऽपि पुद्गलादे व्यत्वप्रसङ्गात् ।। इति गाथार्थः ॥ २८ ॥
आह विनेयः- ननु सामान्येन द्रव्यलक्षणमवगतम् , परं द्रव्यमङ्गलं किमभिधीयते ? इति प्रस्तुतं निवेद्यताम् , इत्याह
औगमओऽणुवउत्तो मंगलसदाणुवासिओ वत्ता । तन्नाणलडिसहिओ वि नोवउत्तो त्ति तो दत्वं ॥ २९॥
इह द्रव्यमङ्गलं तावद् द्विधा भवति- आगमतः- आगममाश्रित्य, नोआगमतश्च-नोआगममाश्रित्य, तत्राऽऽगमो मङ्गलशब्दार्थज्ञानस्वरूपोऽत्राभिप्रेतः, तमाश्रित्य 'द्रव्यं द्रव्यमङ्गलमिति पर्यन्ते संबन्धः । कोऽसौ ?, इत्याह-वक्ता मङ्गलशब्दार्थप्ररूपकः। किं सर्वोऽपि, न, इत्याह- अनुपयुक्तः तदुपयोगशून्यः। किं विशिष्टः, इत्याह- मङ्गलशब्दानुवासितः मङ्गलशब्दार्थज्ञानावरणक्षयोपशमसंस्कारानुरञ्जितमनाः; तज्ज्ञानलब्धिमानिति यावत् । ननु यदि तज्ज्ञानलब्धिास्तहि किमिति द्रव्यम् , इत्याह- 'तन्नाणेत्यादि तज्ज्ञानलब्धिसहितोऽपि मङ्गलशब्दार्थज्ञानावरणक्षयोपशमवानपि नोपयुक्तस्तत्र मङ्गलशब्दार्थे यस्मादसौ, 'तो त्ति तस्माद् द्रव्यमङ्गलम् । इदमुक्तं भवति- 'अनुपयोगो द्रव्यम्' इति वचनाद् मङ्गलशब्दार्थ जाननपि तत्रानुपयुक्तस्तं प्ररूपयंस्तज्ज्ञानलब्धिसहितोऽप्यागमतो द्रव्यमङ्गलमेव ॥ इति गाथार्थः ॥ २९ ॥
___ अत्राह कश्चित्- ननु कोऽयमागमो यमाश्रित्य द्रव्यमङ्गलमिदमभिधीयते । अत्रोच्यते- मङ्गलशब्दार्थज्ञानमत्राऽऽगमः । तर्हि प्रेर्यते, किम् ?, इत्याह१ ग-'भवत्येव' । २ आगमतोऽनुपयुक्तो मङ्गलशब्दानुवासितो वक्ता । तज्ज्ञानलब्धिसहितोऽपि नोपयुक्त इति तस्माद् द्रव्यम् ॥ २९ ॥
FO॥ २५॥ ३ क. स. ग. 'रूपो'। ४ ख. 'मालशब्दार्थज्ञानवानपि ।