SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विशे० बदतिः। वृहदृत्तिः। ॥ २४ ॥ R सा स्थापनाऽभिधीयते, यत् किम् , इत्याह-यत् क्रियते इन्द्रादिस्थापनारूपतया विधीयते वस्तु, पुनःशब्दो नामलक्षणात स्थापनालक्षणस्य वैसदृश्यद्योतकः । केन ?, इत्याह- तदभिप्रायेण तस्य सद्भूतेन्द्रस्याऽभिप्रायोऽध्यवसायस्तेन । कथंभूतं तद् वस्तु ?, इत्याह- तदर्थशून्यं स चाऽसावर्थश्च तदर्थः सद्भूतेन्द्रलक्षणस्तेन शून्यं तदर्थशून्यम् । पुनरपि कथंभूतम् ?, तादृशाकारं सद्भूतेन्द्रसमानाकारम् , वाशब्दस्य भिन्नक्रमत्वाद् निराकारं वा सद्भूतेन्द्राकारशून्यमित्यर्थः, चित्र-लेप्य-काष्ठ-पाषाणादिषु तादृशाकारं भवति, अक्षादिषु तु निराकारमित्यर्थः । पुनः किंभूतम् ?, इत्वरम्-अल्पकालीनम् , इतरद्वा यावत्कथिकम् । तत्रत्वरं चित्राक्षादिगतम् , यावत्कथिक | तु नन्दीश्वरचैत्यप्रतिमादिः तदपि हि 'तिष्ठतीति स्थापना' इति स्थापनात्वेन समये निर्दिष्टमेव । तदिदमिह तात्पर्यम्-यद् वस्तु सद्भूतेन्द्रार्थशून्यं सत् तद्बुद्ध्या तादृशाकारं निराकारं वा, स्तोककालं यावत्कथिकं वा स्थाप्यते सा स्थापनेति । प्रकृते योजना त्वित्थं क्रियते-चित्रकर्मादिगतः परममुनिः स्थापनं स्थापना तया मङ्गलम्, स्थाप्यत इति वा स्थापना तया मङ्गलं स्थापनामङ्गलमिति व्यपदिश्यते ॥ इति गाथार्थः ॥ २६ ॥ अथ भाष्यकारः स्वयमेव नाम-स्थापनामङ्गलयोरुदाहरणमुपदर्शयन्नाह- जैह मंगलमिह नाम जीवा-ऽजीवो-भयाण देसीओ। रूढं जलणाईणं ठवणाए सोत्थिआईणं ॥ २७॥ ____ यथाशब्द उदाहरणोपन्यासार्थः । क यथा?, इत्याह- जीवा-ऽजीवोभयानां ज्वलनादीनां देशीतो देशीभाषया मङ्गलमिति नाम रूढम् , तत्र जीवस्याऽर्मङ्गलमिति नाम सूढम् , सिन्धुविषयेऽजीवस्य दवरकवलनकस्य मङ्गलमिति नाम रूढम् , लाटदेशे जीवाजीवोभयस्य तु मङ्गलमिति नाम रूदं वन्दनमालायाः, दवरिकादीनामिहाऽचेतनत्वात् , पत्रादीनां तु सचेतनत्वाज्जीवाजीवोभयत्वं भावनीयम् । स्वस्तिकादीनां तु या स्थापना लोके तस्या रूढं स्थापनामङ्गलत्वमिति शेषः ॥ इति गाथार्थः ।। २७॥ * अथ द्रव्यलक्षणमाह 'देवए दुयए दोरवयवो विगारो गुणाण संदावो। दव्वं भव्वं भावस्स भूअभावं च जं जोग्गं ॥ २८ ॥ ___ 'दुद्रु गतौ' इति धातुः, ततश्च द्रवति तांस्तान् वपर्यायान् प्रामोति मुश्चति वेति तद् 'द्रव्यम्' इत्युत्तरार्धादानीय सर्वत्र संबध्यते, तथा द्रूयते स्वपर्यायैरेव प्राप्यते मुच्यते चेति द्रव्यम् , यान् किल पर्यायान् द्रव्यं प्रामोति तैस्तदपि प्राप्यते, यांश्च मुञ्चति तैस्तदपि । यथा मझलमिह नाम जीवा-उजीवो-भयानां देशीतः । रूबं ज्वलनादीनां स्थापनायाः स्वस्तिकादीनाम् ॥ २ हवति दूयते दोरवयवो विकारो (वा) गुणानां संद्रावः । द्रव्यं भव्यं भावस्थ भूतभावं च यद मोरया ॥ २८.. ||२४॥ हासस For Peso Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy