SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ यत् कस्मिंश्चिद् भृतकदारकादौ इन्द्रायभिधानं क्रियते, तद्' नाम भण्यते । कथंभूत तत् ?, इत्याह- पर्यायाणां शक्र-पुरन्दरविशे० पाकशासन-शतमख-हरिप्रभृतीनां समानार्थवाचकानां ध्वनीनामनभिधेयमवाच्यम् , नामवतः पिण्डस्य संबन्धी धर्मोऽयं नाम्न्युपचरितः, स हि नामवान् भृतकदारकादिपिण्डः किलैकेन संकेतितमात्रेणेन्द्रादिशब्देनैवाऽभिधीयते, न तु शेषैः शक्र-पुरन्दर-पाकशासनादिशब्दैः, अतो नामयुक्तपिण्डगतधर्मो नाम्न्युपचरितः पर्यायानभिधेयमिति । पुनरपि कथंभूतं तनाम, इत्याह- 'ठिअमण्णत्थे ति' विवक्षिताद् भृतकदारकादिपिण्डादन्यश्वासावश्चाऽन्यार्थो देवाधिपादिः, सद्भावतस्तत्र यत् स्थितम् ,भृतकदारकादौ तु संकेतमात्रतयैव वर्तते; अथवा सद्भावतः स्थितमन्वर्थे- अनुगतः संबद्धः परमैश्वर्यादिकोऽर्थो यत्र सोऽन्वर्थः शचीपत्यादिः। सद्भावतस्तत्र स्थितं भृतकदारकादौ तर्हि कथं वर्तते , इत्याह- तदर्थनिरपेक्षं तस्येन्द्रादिनाम्नोऽर्थस्तदर्थः परमैश्वर्यादिस्तस्य निरपेक्षं संकेतमात्रेणैव तदर्थशून्ये भृतकदारकादौ वर्तते, इति पर्यायानभिधेयम् , स्थितमन्यार्थे, अन्वर्थे वा; तदर्थनिरपेक्षं यत् कचिद् भृतकदारकादौ इन्द्राद्यभिधानं क्रियते तद् नाम, इतीह तात्पर्यार्थः । प्रकारान्तरेणाऽपि नाम्नः स्वरूपमाह- यादृच्छिकं चेति, इदमुक्तं भवति-न केवलमनन्तरोक्तम्, किन्त्वन्यत्राऽवबर्तमानमपि यदेवमेव यदृच्छया केनचिद् गोपालदारकादेरभिधानं क्रियते, तदपि नाम, यथा डित्थो डवित्थ इत्यादि । इदं चोभयरूपम पि कथंभूतम् , इत्याह-यावद् द्रव्यं च प्रायेणेति- यावदेतद्वाच्यं द्रव्यमवतिष्ठते तावदिदं नामाऽप्यवतिष्ठत इति भावः । किं सर्वमपिन, इत्याह-प्रायेणेति, मेरु-द्वीप-समुद्रादिकं नाम प्रभूतं यावद्र्व्यभावि दृश्यते; किश्चित् त्वन्यथाऽपि समीक्ष्यते, देवदत्तादिनामवाच्यानां द्रव्याणां विद्यमानानामप्यपरापरनामपरावर्तस्य लोके दर्शनात् । सिद्धान्तेऽपि यदुक्तम्- "नामं आवकहिअंति" तत् प्र. तिनियतजनपदादिसंज्ञामेवाऽजीकृत्य, यथोत्तराः कुरव इत्यादि । तदेवं प्रकारद्वयेन नाम्नः स्वरूपमत्रोक्तम् , एतच्च तृतीयप्रकारस्योपलक्षणम् , पुस्तक-पत्र-चित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णावलीमात्रस्याऽप्यन्यत्र नामत्वेनोक्तत्वादिति । एतच्च सामान्येन नानो लक्षणमुक्तम् , प्रस्तुते त्वेवं योज्यते- यत्र मङ्गलार्थशून्ये वस्तुनि मङ्गलमिति नाम क्रियते, तद् वस्तु नाम्ना नाममात्रेण मालमिति कृत्वा नाममङ्गलमित्युच्यते । पुस्तकादिलिखितं च यद् मङ्गलमिति वर्णावलीमात्रम् , तदपि नाम च तद् मङ्गलं चेति कृत्वा नाममङ्गलमित्यभिधीयते ।। इति गाथार्थः ॥ २५॥ अथ सामान्येनैव स्थापनायाः खरूपमाहजे पुण तयत्थसुन्नं तयभिप्पाएण तारिसागारं । कीरइ व निरागारं इत्तरमियरं व सा ठवणा ॥ २६ ॥ नाम यावत्कथिकमिति। २ यत् पुनस्तदर्थशून्यं तदभिप्रायेण तादृशाकारम् । क्रियते वा निराकारमित्वरमितरद् वा सा स्थापना ॥ २६॥ ॥२३॥ Jan Educonsinema For Personal and Private Use Only www.jaineitrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy