SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ २२ ॥ Jain Education Internat धर्मोपादानहेतुरित्यर्थः ॥ इति गाथार्थः ॥ २२ ॥ अहवा निवायणाओ मंगलमिट्ठत्थपगइपञ्च्चयओ । सत्थे सिद्धं जं जह तयं जहाजोगमाओज्जं ॥ २३ ॥ अथवा निपातनाद् मङ्गलमिति साध्यते । कथम् १, इत्याह- इष्टार्थप्रकृतिप्रत्ययतः, तत्रेष्टो विवक्षितोऽर्थो यासां ता इष्टार्थाः प्रकृतयः तद्यथा - 'मकि मण्डने' 'मन ज्ञाने' 'मदी हर्षे' 'मुद मोद-स्वप्न-गतिषु' 'मह पूजायाम्' इत्येवमादिः प्रत्ययस्त्वेतासां प्रकृतीनां सर्वत्र 'अलच्' एव विधीयते, ततो मङ्गलमिति रूपं निपात्यते । व्युत्पत्तिस्त्वेवम् - मङ्क्यतेऽलंक्रियते शास्त्रमनेनेति मङ्गलम्, तथा मन्यते ज्ञायते निश्चीयते विघ्नाभावोऽनेन, तथा माद्यन्ति हृष्यन्ति मदमनुभवन्ति, मोदन्ते, शेरते विघ्नाभावेन निष्पकम्पतया सुप्ता इव जायन्ते, शास्त्रस्य पारं गच्छन्त्यनेनेति, तथा मह्यन्ते पूज्यन्तेऽनेनेति मङ्गलमिति । एवमादि व्याकरणशास्त्रे यद् यथा निपातनं सिद्धम्, तद् यथायोगं यथासंबन्धमंत्र स्वधियाऽऽयोज्यं लक्षणः ॥ इति गाथार्थः ॥ २३ ॥ मैं गालयइ भवाओ मंगलमिहेवमाइ नेरुत्ता । भासंति सत्थवसओ नामाइ चउन्विहं तं च ॥ २४ ॥ अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः । इह मङ्गलविचारे एवमादि नैरुक्ताः शब्दविदः शास्त्रवशतो व्याकरणानुसारेण भाषन्ते मङ्गलशब्दार्थ व्याचक्षते । आदिशब्दात् शास्त्रस्य मा भूद् गलो विघ्नोऽस्मादिति मङ्गलम्, अथवा शास्त्रस्य मा भूद् गलो नाशोऽस्मिन्निति मङ्गलम् सम्यग्दर्शनादिमार्गलयनाद् वा मङ्गलमित्यादि द्रष्टव्यम्, इत्यलं विस्तरेण । इह तत्व-पर्याय - भेदैर्व्याख्या, तत्र तत्त्वं शब्दार्थरूपम्, तत्तावद् निर्णीतम् । पर्यायास्तु मङ्गलं, शान्तिः, विघ्नविद्रावणमित्यादयः स्वयमेव द्रष्टव्याः । भेदस्तु स्वयमेव निरूपयितुमाह- 'नामाइ चउन्विहं तं चेति, तच्च मङ्गलं नामादिभेदतचतुर्विधं भवति । तद्यथा - नाममङ्गलम्, स्थापनामङ्गलम्, द्रव्यमङ्गलम्, भावमङ्गलं च ॥ इति गाथार्थः ॥ २४ ॥ तत्र नाम किमुच्यते ? इत्याशङ्क्य सामान्येन नान्नस्तावल्लक्षणमाह पैज्जायाऽभिधेयं ठिअमण्णत्थे तयत्थनिरवेक्खं । आइच्छिअं च नामं जावदव्वं च पाएण ॥ २५ ॥ १ अथवा निपातनाद् मंगलमिष्टार्थप्रकृतिप्रत्ययतः । शास्त्रे सिद्धं यद् यथा तद् यथायोगमायोज्यम् ॥ २३ ॥ २ मां गालयति भवाद् मङ्गलमिहेवमादि नैरुक्ताः । भाषन्ते शास्त्रवशतो नामादि चतुर्विधं तच्च ॥ २४ ॥ , पर्यायाऽनभिधेयं स्थितमन्यार्थे (अन्वर्थे वा) तदर्थनिरपेक्षम् । यादृच्छिकं च नाम ग्रावद्द्द्रव्यं च प्रायेण ॥ २५ ॥ For Personal and Private Use Only बृहद्वृचिः । ॥२२॥ www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy