________________
बृहदत्तिः ।
॥११०॥
शाङ्गो वा शब्दः । शाङ्गश्चेत् किं महिषीशृङ्गोद्भवः, महिषशृङ्गजो वा । महिषीशृङ्गसंभवश्चेत् , किं प्रमूतमहिषीशृङ्गसंभवः, अप्रमूतमहिपीभृङ्गसमुद्भूतो वा? इत्यादि । यतश्चानन्तरमित्थं विमर्शेनेहाप्रवृत्तिर्न भवति, अन्तप्राप्तेः, क्षयोपशमाभावाद् वा, स पुनरपायः॥
तदेतत् परोक्तं दूषयितुमाह-'तं नो इत्यादि' तदेतत् परोक्तं न । कुतः? इत्याह-बहवश्च ते दोषाश्च तेषां भाव उपनिपातस्तस्मात् , एवं हि सर्वायुषाऽप्यपायप्रवृत्तिर्न स्यात् , यथोक्तविमर्शप्रवृत्तेरनिष्ठितत्वात् । न च पूर्वमनीहिते प्रथमोऽपि शब्दनिश्चयो युक्तः, यतश्च पूर्वमीहा प्रवर्तते नाऽसाववग्रहः, किन्त्वपाय एवेत्यादि सर्व पुरस्ताद् वक्ष्यते ॥ इति गाथार्थः ॥ १८१ ॥
अन्ये स्वीहायां विप्रतिपद्यन्ते, तन्मतमुपन्यस्य दूषयनाह
ईहा संसयमेत्तं केई, न तयं तओ जमन्नाणं । मइनाणंसा चेहा कहमन्नाणं तई जुत्तं ? ॥ १८२ ॥
किमयं स्थाणुः, आहोखित् पुरुषः? इत्यनिश्चयात्मकं संशयमात्रं यदुत्पद्यते तदीहेति केचित् प्रतिपद्यन्ते । तदेतद् न घटते । | कुतः इत्याह- यद् यस्मात् कारणात् । 'तउत्ति' असौ संशयोऽज्ञानम् । भवतु तीज्ञानमपीहा, इति चेत् , इत्याह- 'मईत्यादि' मतिज्ञानांशश्च मतिज्ञानभेदश्वेहा वर्तते । न च ज्ञानभेदस्याऽज्ञानरूपता युज्यते; एतदेवाह- 'कहमित्यादि ' कथं केन प्रकारेणाऽज्ञानं युक्तम् ? न कथश्चिदित्यर्थः । केयमित्याह-'तई ति' असौ मतिज्ञानांशरूपेहा, संशयस्य वस्त्वप्रतिपत्तिरूपत्वेनाऽज्ञानात्मकत्वात् , ईहायास्तु ज्ञानभेदत्वेन ज्ञानखभावत्वात् । ज्ञाना-ऽज्ञानयोश्च परस्परपरिहारेण स्थितत्वाद् नाऽज्ञानरूपस्य संशयस्य ज्ञानांशात्मकेहारूपत्वं युक्तमिति भावः ॥ इति गाथार्थः॥ १८२ ॥
आह- ननु संशये-हयोः किं कश्चिद् विशेषोऽस्ति , येनेहारूपत्वं संशयस्य निषिध्यते ? इत्याशङ्कय तयोः स्वरूपभेदमुपदर्शयत्राह
जैमणेगत्थालंबणमपज्जुदासपरिकुंठियं चित्तं । सेय इव सव्वप्पयओ तं संसयरूवमन्नाणं ॥ १८३ ॥ तं चिय सयत्थहेऊ-ववत्तिवावारतप्परममाहं । भूया-ऽभूयविसेसायाण-च्चायाभिमुहमीहा ॥ १८४ ॥ १इंहा संशयमानं केचित्, न तत् सको यदज्ञानम् । मतिज्ञानांशश्वेहा कथमज्ञानं सा युक्तम् ॥ १८२ ॥ २ यदनेकार्थालम्बनमपर्युदासपरिकुण्ठितं चित्तम् । शेत इव सर्वात्मतस्तत् संशयरूपमशानम् ॥ १८३ ॥ तदेव सदर्थहेतूपपत्तिव्यापारतत्परममोघम् । भूता-ऽभूतविशेषाऽऽदान-त्यागाभिमुखमीहा ॥ १५ ॥
॥११॥
29SPSSSS
Jan Education Internatio
For Personal and Private Use Only
INTww.jaineltrary.org