________________
बृहद्वत्तिः ।
विशे० ॥११॥
यचित्तं यन्मनोऽनेकार्थालम्बनमनेकार्थप्रतिभासाऽऽन्दोलितम् , अत एव पर्युदसनं पर्युदासो निषेधो न तथाऽपर्युदासोऽनिषेधस्तेन, तथोपलक्षणत्वादविधिना च परिकुण्ठितं जडीभूतं सर्वथाऽवस्तुनिश्चयरूपतामापन्नम् , किंबहुना ? 'सेय इवेत्यादि ' शेत इव स्वपितीव सर्वात्मना न किश्चिच्चेतयते, वस्त्वप्रतिपत्तिरूपत्वात् , तदेवंविधं चित्तं संशय उच्यत इत्यर्थः, तच्चाऽज्ञानम् , वस्त्ववबोधरहितत्वादिति । यत् पुनस्तदेव चेतो वक्ष्यमाणस्वरूपं तदीहेति संबन्धः । कथंभूतं सत् ? इत्याह- "भूया-भूयेत्यादि ' भूतः कचिद् विवक्षितपदेशे स्थाण्यादिरः, अभूतस्तत्राऽविद्यमानः पुरुषादिः, तावेव पदार्थान्तरेभ्यो विशिष्यमाणत्वाद् विशेषी, तयोरादान-त्यागाभिमुखं- भूतार्थविशेषोपादानस्याऽभिमुखम् , अभूतार्थत्यागस्याऽभिमुखमिति यथासंख्येन संबन्धः । यतः कथंभूतम् ? इत्याह- सदर्थहेतूपपत्तिव्यापारतत्परं हेतुद्वारेणेदं विशेषणम्- सदर्थहेतूपपत्तिव्यापारतत्परत्वाद् भूता-ऽभूतविशेषादान-त्यागाभिमुखमिति भावः, तत्र हेतुः साध्यार्थगमकं युक्तिविशेषरूपं साधनम् , उपपत्तिः संभवघटनम्-विवक्षितार्थस्य संभवव्यवस्थापनम् । ततश्च हेतुश्चोपपत्तिश्च हेतूपपत्ती सदर्थस्य विवक्षितपदेशेऽरण्यादौ विद्यमानस्य स्थाण्वादेरर्थस्य हेतू-पपत्ती सदर्थहेतूपपत्ती लद्विषयो व्यापारो घटनं चेष्टनं सदर्थहेतू-पपत्तिव्यापारस्ततस्तत्परं तनिष्ठमिति समासः। अत एवाऽमोघमर्थवलायातत्वेनाऽविफलमामिथ्यास्वरूपम्, तदेवंभूतं चेतः ईहा'इति संबन्धः कृत एव इदमुक्तं भवति- केनचिदरण्यदेशं गतेन सवितुरस्तमयसमये ईषदवकाशमासादयति तमिस्र दूरवर्ती स्थाणुरुपलब्धः, ततोऽस्य विमर्शः समुत्पन्नः-किमयं स्थाणुः, पुरुषो वा ? इति । अयं च संशयत्वादज्ञानम् । ततोऽनेन तस्मिन् स्थाणौ दृष्ट्वा वल्ल्यारोहणम् , पविलोक्य काक-कारण्डव-कादम्ब-कौश्च-कीरशकुन्तकुलनिलयनम् , कृतश्चेतास हेतुब्यापारः, यथा स्थाणुरयम् , वल्ल्युत्सर्पण-काकादिनिलयनोपलम्भात् । तथा संभवपर्यालोचनं च व्यधायि, तद् यथा- अस्ताचलान्तरिते सवितरि, प्रसरति चेपत्तमिस्र महारण्येऽस्मिन् स्थाणुरयं संभाव्यते, न पुरुषः, शिरकण्डूयन-कर-ग्रीवाचलनादेस्तव्यवस्थापकहेतोरभावात् । ईदृशे च प्रदेशेऽस्यां वेलायां प्रायस्तस्याऽसंभवात् । तस्मात् स्थाणुनात्र सद्भूतेन भाव्यम् , न पुरुषेण । तदुक्तम्" अरण्यमेतत् सविताऽस्तमागतो न चाऽधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाम्ना" ॥ १ ॥
एतच्चेदृशं चित्तं ' ईहा' इत्युच्यते, निश्चयाभिमुखत्वेन संशयादुत्तीर्णत्वात् , सर्वथानिश्चयेऽपायत्वप्रसङ्गेन निश्चयादधोवर्तित्वाच । इति संशये-हयोः प्रतिविशेषः ।। इति गाथाद्वयार्थः ॥ १८३ ॥ १८४ ॥ अथाऽपाय-धारणागतविप्रतिपत्तिनिराचिकीर्षया परमतमुपदर्शयन्नाह
१५. छ. ज. 'चित्तं संशयरूपं सं'।
॥११॥