________________
विशे०
॥११२॥
Jain Education Internat
'केई तयणविसावणयणमेतं अवायमिच्छन्ति । सन्भूयत्थविसेसावधारणं धारणं बेति ॥ १८५ ॥
तच्छब्दस्याऽनन्तरगाथोक्तो भूतोऽर्थः संबध्यते, तस्मात् तत्र भूताद् विद्यमानात् स्थाण्वादेर्योऽन्यस्तत्प्रतियोगी तत्राऽविद्यमानः पुरुषादिस्तद्विशेषाः शिरः कण्डूयन-चलन-स्पन्दनादयस्तेषां पुरोवर्तिनि सद्भूतेऽर्थेऽपनयनं निषेधनं तदन्यविशेषापनयनं तदेव तन्मात्रम्, अपायमिच्छन्ति, केचनाऽपि व्याख्यातार:- अपायनमपनयनमपाय इति व्युत्पत्त्यर्थविभ्रमितमनस्का इति भावः । अवधारणं धारणा इति च व्युत्पत्यर्थ भ्रमितास्ते धारणां ब्रुवते । किं तत् १ इत्याह- सद्भूतार्थविशेषावधारणं सद्भूतस्तत्र विवक्षितप्रदेशे विद्यमानः स्थाण्वादिरर्थविशेषस्तस्य 'स्थाणुरेवाऽयं' इत्यवधारणं सद्भूतार्थविशेषावधारणमिति समासः ॥ इति गाथार्थः ॥ १८५ ॥
तदेतद् दूषयितुमाह
bres तयन्नवइरेगमे ओऽवगमणं भवे भूए । सम्भूयसमण्णयओ तदुभयओ कासइ न दोसो || १८६ ॥ .
'भूए ति ' तत्र विवक्षितप्रदेशे भूते विद्यमानेऽर्थे स्थाण्वादौ 'कासइ त्ति' कस्यचित् प्रतिपत्तुस्तदन्यव्यतिरेकमात्रादवगमनं निश्चयो भवति तस्मात् स्थाण्वादेर्योऽन्यः पुरुषादिरर्थस्तस्य व्यतिरेकः स एव तदन्यव्यतिरेकमात्रं तस्मात् स्थाण्वाद्यर्थनिश्चयो भवतीत्यर्थः; तद्यथा- यतो नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्तेः ततः स्थाणुरेवाऽयमिति । कस्यापि सद्भूतसमन्वयतः - सद्भूतस्तत्र प्रदेशे विद्यमानः स्थाण्वादिरर्थस्तस्य समन्वयतोऽन्वयधर्मघटनाद् भूतेऽर्थेऽवगमनं निश्चयो भवेत्, यथा स्थाणुरेवाऽयम्, वल्ल्युत्सर्पणवयोनिलयनादिधर्माणामिहाऽन्वयादिति । कस्यचित् पुनस्तदुभयादन्वयव्यतिरेकोभयात् तत्र भूतेऽर्थेऽवगमनं भवेत् तद्यथायस्मात् पुरुषधर्माः शिरः कण्डूयनादयोऽत्र न दृश्यन्ते, वल्ल्युत्सर्पणादयस्तु स्थाणुधर्माः समीक्ष्यन्ते तस्मात् स्थाणुरेवाऽयमिति । न चैवमन्वयात्, व्यतिरेकात् उभयाद् वा निश्चये जायमाने कश्चिद् दोषः, परव्याख्याने तु वक्ष्यमाणन्यायेन दोष इति भावः ॥ इति गाथार्थः ।। १८६ ॥
कथं पुनस्तद्वयाख्याने न दोषः १, इत्याह
सैो विसोबाओ ए वा होंति पंच वत्थूणि । आहेवं चिय चउहा मई तिहा अन्नहा होइ ॥ १८७॥
१ केचित् तदन्यविशेषापनयनमात्रमपायमिच्छन्ति । सद्भूतार्थविशेषावधारणं धारणां बुवते १८५ ॥
२ कस्यचित् तदन्यव्यतिरेकमात्रतोऽवगमनं भवेद् भूते । सद्भूतार्थसमन्वयतस्तदुभयतः कस्यचिद् न दोषः ॥ १४६ ॥
३. सर्वोऽपि च सोऽपायो भेदे वा भवन्ति पञ्च वस्तूनि आहेवमेव चतुर्धा मतिस्त्रिधाऽन्यथा भवति ॥ १८७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ११२ ॥
www.jainelibrary.org