________________
विशे०
॥११३॥
Jain Educations Internation
यस्माद् व्यतिरेकाद्, अन्वयाद्, उभयाद् वा भूतार्थविशेषावधारणं कुर्वतो योऽध्यवसायः स सर्वोऽप्यपायः प्रस्तुतस्थाण्वादिवस्तुनिश्चयः, न तु सद्भूतार्थविशेषावधारणं धारणेति भावः तस्माद् न दोषः ॥
आह- ननु यथा मया व्याख्यायते - सद्भूतार्थविशेषावधारणं धारणा, तथा किं कश्चिद् दोषः समुपजायते, येनाssत्मीयव्याख्यानपक्षे इदमित्थमभिधीयते 'न दोष:' इति । एतदाशङ्कयाह - ' भेए वेत्यादि ' वाशब्दः पातनायां गतार्थः, व्यतिरेकोऽपायः, अन्वयस्तु धारणा, इत्येवं मतिज्ञानतृतीय भेदस्याऽपायस्य भेदेऽभ्युपगम्यमाने पञ्च वस्तूनि पञ्च भेदा भवन्ति, 'आभिनिवोधिकज्ञानस्य' इति गम्यते; तथाहि - अवग्रहे- हा उपाय-धारणालक्षणाश्चत्वारो भेदास्तावत् त्वयैव पूरिताः, पञ्चमस्तु भेदः स्मृतिलक्षणः प्राप्नोति- अविच्युतेः स्वसमानकालभाविन्यपायेऽन्तर्भूतत्वात्, वासनायास्तु स्मृत्यन्तर्गतत्वेन विवक्षितत्वात् स्मृतेरनन्यशरणत्वाद् मतेः पञ्चमो भेदः प्रसज्यत इति भावः ॥
' आहेत्यादि ' पुनरप्याह परः- ननु यथैव मया व्याख्यायते व्यतिरेकमुखेन निश्चयोऽपायः, अन्वयमुखेन तु धारणा, इत्येवमेव चतुर्भा चतुर्विधा मतिर्भवति युक्तितो घटते । अन्यथा तु व्याख्यायमाने- अन्वयव्यतिरेकयोर्द्वयोरप्यपायत्वेऽभ्युपगम्यमाने इत्यर्थः । किम् , इत्याह- त्रिधा - अवग्रहे- हा ऽपायभेदतस्त्रिभेदा मतिर्भवति, न पुनश्चतुर्धा, धारणाया अघटमानकत्वादिति भावः ॥ इति गाथार्थः ॥ १८७ ॥
,
कथं पुनर्धारणाभावः १, इत्याह
harsara पुणोवओगे य सा जओ वाओ । तो नत्थि धिई, भण्णइ इदं तदेवेति जा बुद्धी ॥ १८८ ॥ न साऽवाय महिया जओ य सा वासणाविसेसाओ । जा याऽवायाणन्तरमविच्चुई सा धिई नाम ॥ १८९॥ अनुपयोगे उपयोगोपरमे सति का धृतिः- का नाम धारणा ? न काचिदित्यर्थः, इदमुक्तं भवति इह तावद् निश्श्रयोपायमुखेन घटादिके वस्तुनि अवग्रहे- हा ऽपायरूपतयाऽन्तर्मुहूर्तप्रमाण एवोपयोगो जायते । तत्र चाडपाये जाते या उपयोग सातत्यलक्षणाविच्युतिर्भवताऽभ्युपगम्यते, साऽपाय एवान्तर्भूता इति न ततो व्यतिरिक्ता । या तु तस्मिन् घटाद्युपयोगे उपरते सति संख्येयमसं
१५
१ काऽनुपयोगे धृतिः पुनरुपयोगे च सा यतोऽपायः ? । ततो नास्ति धृतिर्भण्यते इदं तदेवेति या बुद्धिः ॥ १८८ ॥ ननु साऽपायाऽभ्यधिका यतश्च सा वासनाविशेषात् । या चाऽपायानन्तरमविष्युतिः सा धृतिर्नाम ॥ १८९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः।
॥११३॥
www.jainelltrary.org