________________
ब
विशे०
॥११४॥
ख्येयं वा कालं वासनाऽभ्युपगम्यते,'इदं तदेव' इतिलक्षणा स्मृतिश्चाङ्गीक्रियते, सा मत्यंशरूपा धारणा न भवति, मत्युपयोगस्य प्रागेवोपरतत्वात् । पुनरपि कालान्तरोपयोगे धारणा भविष्यतीति चेत् , इत्याह-'पुणो इत्यादि' कालान्तरे पुनर्जायमानोपयोगेऽपि याऽन्वयमुखोपजायमानाध्यधारणरूपा धारणा मयेष्यते, सा यतोऽपाय एव भवताऽभ्युपगम्यते 'सव्वो वि य सोऽवाओ' इत्यादिवचनात् । ततस्तत्रापि नास्ति धृतिर्धारणा, पुनरप्युपयोगोपरमेऽपि पूर्वोक्तयुक्त्यैव तदभावः तस्मादुपयोगकालेऽन्वयमुखाऽवधारणरूपाया धारणायास्त्वयाऽनभ्युपगमात् , उपयोगोपरमे च मत्युपयोगाभावात् , तदंशरूपाया धारणाया अघटमानकत्वात् त्रिधैव भवदभिमायेण मतिः प्राप्नोति, न चतुर्धा, इति पूर्वपक्षाभिप्रायः॥
____ अत्रोत्तरमाह- 'भण्णईत्यादि' भण्यतेऽत्र प्रतिविधानम् । किम् ?, इत्याह- 'इदं वस्तु तदेव यत् प्रागुपलब्धं मया' इत्येवंभूता कालान्तरे या स्मृतिरूपा बुद्धिरुपजायते, नन्विह सा पूर्वप्रवृत्तादपायाद् निर्विवादमभ्यधिकैव, पूर्वप्रवृत्ताऽपायकाले तस्या अभावात् : सांप्रतापायस्य तु वस्तुनिश्चयमात्रफलत्वेन पूर्वापरदर्शनानुसंधानाध्योगात् । ततश्च साऽनन्यरूपत्वाद् धृतिर्धारणा नामति पर्यन्ते संवन्धः । यतश्च यस्माच वासनाविशेषात्-पूर्वोपलब्धवस्त्वाहितसंस्कारलक्षणात् तद्विज्ञानावरणक्षयोपशमसान्निध्यादित्यर्थः, सा 'इदं तदेव' इतिलक्षणा स्मृतिर्भवति । साऽपि वासनाऽपायादभ्यधिकति कृत्वा धृतिर्नाम, इतीहापि संबन्धः। 'जा याऽवायेत्यादि' या चाऽपायादनन्तरमविच्युतिः प्रवर्तते साऽपि धृति म । इदमुक्तं भवति- यस्मिन् समये 'स्थाणुरेवाऽयम्' इत्यादिनिश्चयस्वरूपोऽपायः प्रवृत्तः, ततः समयादूर्ध्वमपि 'स्थाणुरेवाऽयम्, स्थाणुरेवाऽयम्' इत्यविच्युता याऽन्तर्मुहूर्त क्वचिदपायप्रवृत्तिः साऽप्यपायाऽविच्युतिः प्रथमप्रवृत्तापायादभ्यधिकेति धृतिर्धारणा नामेति । एवमविच्युति-वासना-स्मृतिरूपा धारणा त्रिधा सिद्धा भवति ।।
अत्राह कश्चित्- नन्वविच्युति-स्मृतिलक्षणौ ज्ञानभेदी गृहीतग्राहित्वाद् न प्रमाणम् , द्वितीयादिवारा प्रवृत्ताऽपायसाध्यस्य वस्तुनिश्चयलक्षणस्य कार्यस्य प्रथमवारा प्रवृत्तापायेनैव साधितत्वात् । न च निष्पादितक्रिये कमणि तत्साधनायैव प्रवर्तमानं साधनं | शोभा विभर्ति, अतिप्रसङ्गात्- कुठारादिभिः कृतच्छेदनादिक्रियेष्वपि वृक्षादिषु पुनस्तत्साधनाय तेषां प्रवृत्त्याप्तेः। स्मृतेरपि पूर्वोत्तरकालभाविज्ञानद्वयगृहीत एव वस्तुनि प्रवर्तमानतया कुतःप्रामाण्यम् । न च वक्तव्यं पूर्वोत्तरदर्शनद्वयाऽनधिगतस्य वस्त्वेकत्वस्य ग्रहणात् स्मृतिः प्रमाणम् , पूर्वोत्तरकालदृष्टस्य वस्तुनः कालादिभेदेन भिन्नत्वात् , एकत्वस्यैवाऽसिद्धत्वादिति । वासना तु किंरूपा? इति वाच्यम् । संस्काररूपेति चेत् । कोऽयं नाम संस्कारः?-स्मृति-ज्ञानावरणक्षयोपशमोवा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वा ? इति
१ गाथा १८७। २ घ. छ. ज, 'च्युत्या या ।
19.
Jan Education intem
For Personal and Private Use Only
www.jaineltrary.ary