________________
त्रयी गतिः । तत्राद्यपक्षद्वयमयुक्तम् , ज्ञानरूपत्वाभावात् , तद्भेदानां चेह विचार्यत्वेन प्रस्तुतत्वात् । तृतीयपक्षोऽप्ययुक्त एव, संख्येयमसंविशे० Bख्येयं वा कालं वासनाया इष्टत्वात् , एतावन्तं च कालं तद्वस्तुविकल्पाऽयोगात् । तदेवमविच्युति-स्मृति-वासनारूपायाखिविधाया
अपि धारणाया अघटमानत्वात् त्रिधैव मतिः प्राप्नोति, न चतुर्धा ॥ ॥११५||
अत्रोच्यते-यत् तावद् गृहीतग्राहित्वादविच्युतेरप्रामाण्यमुच्यते, तदयुक्तम् , गृहीतग्राहित्वलक्षणस्य हेतोरसिद्धत्वात् , अन्यकालविशिष्टं हि वस्तु प्रथमप्रवृत्ताऽपायेन गृह्यते, अपरकालविशिष्टं च द्वितीयादिवारा प्रवृत्ताऽपायेन । किश्च, स्पष्ट-स्पष्टतर-स्पष्टतमभिन्नधमकवासनाजनकत्वादप्यविच्युतिप्रवृत्तद्वितीयाद्यपायविषयं बस्तु भिन्नधर्मकमेव, इति कथमविच्युतेगृहीतग्राहिता ? । स्मृतिरपि पूर्वोत्तरदर्शनद्वयानधिगतं वस्त्वेकत्वं गृह्णाना न गृहीतग्राहिणी । न च वक्तव्यं कालादिभेदेन भिन्नत्वाद् वस्तुनो नैकत्वम् , कालादिभिभिन्नत्वेऽपि सत्त्व-प्रमेयत्व-संस्थानरूपादिभिरेकत्वात् । वासनापि स्मृति-विज्ञानावरणकर्मक्षयोपशमरूपा, तद्विज्ञानजननशक्तिरूपा चेष्यते । सा च यद्यपि स्वयं ज्ञानरूपा न भवति, तथापि पूर्वप्रवृत्ताऽविच्युतिलक्षणज्ञानकार्यत्वात् , उत्तरकालभाविस्मृतिरूपज्ञानकारणत्वाच्चोपचारतो ज्ञानरूपाऽभ्युपगम्यते । तद्वस्तुविकल्पपक्षस्त्वनभ्युपगमादेव निरस्तः । तस्मादविच्युति-स्मृति-वासनारूपाया धारणायाः स्थितत्वाद् न मतेस्वैविध्यम् , किन्तु चतुर्धा सेति स्थितम् ।। इति गाथाद्वयार्थः ॥ १८८ ॥ १८९ ।।
अर्थतां स्वाभिमतां धारणां व्यवस्थाप्य परं प्रत्याह
तं इच्छंतस्स तुहं वत्थूणि य पंच, नेच्छमाणस्य । किं होउ सा अभावो भावो नाणं व तं कयरं ? ॥१९॥
अस्मदभिमतामनन्तरप्रतिष्ठितस्वरूपां तां धारणामिच्छतस्तव पञ्च वस्तूनि- पञ्चाऽऽभिनिवोधिकज्ञानभेदाः प्राप्नुवन्ति, अपायस्यैकस्याऽपि भेदद्वयरूपताभ्युपगमेन भेदचतुष्टयस्य त्वयाऽपि पूरितत्वात् , पश्चमस्य तु मदुक्तस्य धारणालक्षणस्य प्रसङ्गादिति भावः । अथास्मदभ्युपगता धारणा त्वया नेष्यते, तर्हि 'नेच्छमाणस्स किं होउ इत्यादि' तां मदभ्युपगतां धारणामनिच्छतोऽमतिपद्यमानस्य । तव सा मदभ्युपगता धारणा किं भवतु-अभावो- अवस्तु, आहोखिद् भावो- वस्तु ? इति विकल्पद्वयम् । किश्चातः? न तावदभावः,भावत्वेनाऽनुभूयमानत्वात् । न च तथाऽनुभूयमानस्याऽभावत्वमाधातुं शक्यते, अतिप्रसङ्गात्-घटादिष्वपि तथात्वमाप्तेः तेऽपि बनुभववशेनेव भावरूपा व्यवस्थाप्यन्ते । यदि चाऽनुभवोऽप्यप्रमाणम् , तदा घटादिष्वपि भावरूपतायामनाश्वास इति भावः । अथ भावोऽसौ,
१ तामिच्छतस्तव वस्तूनि च पञ्च, नेच्छतः । किं भवतु साऽभावो भावो ज्ञानं वा तत् कतरत् ॥ १९ ॥
११५॥