________________
बृहद्वत्तिः ।
॥११६॥
तर्हि वक्तव्यम्- ज्ञानम् , अज्ञानं वा । न तावदज्ञानम् , चिद्रूपतयाऽनुभूयमानत्वात् । अथ ज्ञानम् , तदपि मति-श्रुता-ऽवधि-मन:विशे० | पर्याय-केवलेभ्यो ज्ञानान्तरस्याऽभावात् तेषां मध्ये कतमत् ? इति वाच्यम् । न तावत् श्रुतादिचतुष्टयरूपम् , अनभ्युपगमात् , तल्लक्षणा-
ऽयोगाच्च । मतिज्ञानं चेत् , तदपि नाऽवग्रहे-हा-पायरूपम् , तल्लक्षणासंभवात् 'नणु सावायब्भहिया' इत्यादिनाऽपायाभ्यधिकत्वेन साधितत्वाच । तस्मादन्वय-व्यतिरेकाभ्यां निश्चयः सर्वोऽप्यपायः, अविच्युति-स्मृति-वासनारूपा तु पारिशेष्यद्वारेणैव, इति स्थितम् ।। इति गाथार्थः ॥ १९ ॥
तदेवं निरुत्तरीकृतोऽप्यविलक्षितयाऽन्येन प्रकारेणाह
तुझं बहुयरभेया भणइ मई होई धिइबहुत्ताओ । भण्णइ न जाइभेओ इहो मज्झं जहा तुझं ॥ १९१॥ अत्र प्रेरको भणति । किम् ?, इत्याह- 'तुज्झमित्यादि' इत्थमाचार्य ! तव बहुतरभेदा मतिर्भवति । कुतः १, इत्याह- धृतेर्धारणाया बहुत्वाद् बहुभेदत्वादित्यर्थः-धारणाया एकस्या अप्यविच्युति-वासना-स्मृतिलक्षणभेदत्रययुक्तत्वादवग्रहे-हा-ऽपायैः सह षड्भेदा मतिः प्राप्नोतीति भावः । अत्र प्रतिविधानमाह- 'भण्णईत्यादि भण्यतेत्रोत्तरम्- जातेहेंदो जातिभेदो व्यक्तिपक्ष इत्यर्थः, स इह धारणाविचारे मम नेष्टो नाभिप्रेतः, किन्तु धारणासामान्यरूपा जातिरेव ममाऽभिप्रेता । कस्य यथा?, इत्याह- यथा तब 'अवग्रहविषये'
इति शेषः, इदमुक्तं भवति- यथाऽवग्रहो व्यञ्जना-र्थावग्रहभेदादुभयरूपोऽवग्रहसामान्यादेकस्त्वयाऽपीष्टः, अन्यथा मतेः पञ्चविधत्वप्रFO सङ्गात् । तथा त्रिरूपाऽपि धारणा तत्सामान्यादेकरूपैव; इति चतुर्विधैव मतिः, न बहुतरभेदा ॥ इति गाथार्थः ।। १९१ ॥
एतदेव भावयन्नाह
सा भिन्नलक्खणाऽवि हु धिइसामन्नेण धारणा होइ । जह उग्गहो दुरूवो उग्गहसामन्नओ एक्को ॥१९२॥
सा धारणा, अविच्युति-वासना-स्मृतीनां भिन्नखरूपत्वेन भिन्नलक्षणाऽपि सती धारणासामान्याव्यतिरेकादेकैव भवति; यथाऽवग्रहो व्यञ्जना-ऽर्थावग्रहभेदाद् द्विरूपोऽप्यवग्रहसामान्याव्यतिरेकादेकः परस्याऽपि सिद्धः, अन्यथा मतेः पञ्चविधत्वापत्तेः ॥ इति गाथार्थः ॥ १९२ ॥
१ गाथा १८१ । २ घ. छ. ज. 'कारणेनाह'। ३ तव बहुतरभेदा भणति मतिर्भवति एतिबहुत्वात् । भण्यते न जातिभेद इष्टो मम यथा तव ॥१९॥
खा भिन्मलक्षणाऽपि खलु अतिसामान्येन धारणा भवति । यथाऽवग्रहो द्विरूपोऽवग्रहसामान्यत एकः ॥ १९२ ॥
STERBAR
raikolog
॥११६॥
STRETRARASTRA
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.org