________________
विशे०
hou
॥११७॥
तदेवमवग्रहादिभेदचतुष्टयविषया निराकृताः सर्वा अपि परविप्रतिपत्तयः, तन्निराकरणप्रक्रमे चानन्तरमवग्रहो द्विरूपः प्रोक्तः । स च कथं द्विरूपो भवति ? इत्याशङ्कच तद्विरूपताकथनव्याजेन पूर्व यान्याभिनिबोधिकज्ञानस्याऽवग्रहादीनि चत्वारि भेदवस्तून्युक्तानि, तेष्वेव मध्येऽवग्रहं तावद् व्याचिख्यासुराह
तेत्थोग्गहो दुरूवो गहणं जं होइ बंजण-त्थाणं । वंजणओ य जमत्थो तेणाईए तयं वोच्छं ॥ १९३ ॥
तत्राऽवग्रहणमवग्रहो द्विरूपो यथा भवति, तथा प्रोच्यते । कथम् ?, इत्याह- यद् यस्माद् ग्रहणं व्यञ्जना-ऽर्थयोरेव भवेत् , अन्यस्य ग्राह्यस्याऽभावात् । ततश्च विषयद्वैविध्यादवग्रहो द्विविध इति भावः। अपरं च, यद्यस्मात् कारणाद् वक्ष्यमाणन्यायेन प्राप्यकारिष्विन्द्रियेषु व्यञ्जनतो- व्यञ्जनावग्रहादनन्तरमेव, अर्थो- अर्थावग्रहो भवति, तेनाऽऽदौ प्रथमतस्तकं व्यञ्जनावग्रहमेव वक्ष्ये ॥ इति गाथार्थः ॥ १९३ ॥ तत्र व्यञ्जनं तावत् किमुच्यते ?, इत्याह
जिजइ जेणत्थो घडो व्व दीवेण वंजणं तं च । उवगरणिदियसदाइपरिणयद्दव्वसंबंधो ॥ १९४ ॥ व्यज्यते प्रकटीक्रियतेऽर्थो येन, दीपेनेव घटः, तद् व्यञ्जनम् । किं पुनस्तत् ?, इत्याह- 'तं चेत्यादि' तच्च व्यञ्जनमुपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंबन्धः- इन्द्रियं द्विविधम्- द्रव्येन्द्रियं, भावेन्द्रियं च । तत्र निर्दृत्यु-पकरणे द्रव्येन्द्रियम् , लब्ध्यु-पयोगी भावेन्द्रियम् । निर्वृत्तिश्च द्विधा- अङ्गुलासंख्येयभागादिमानों कदम्बकुसुमगोलक-धान्यमसूर-काहला-क्षुरपाकारमांसगोलकरूपा, शरीराकारा च श्रोत्रादीन्द्रियाणां पञ्चानामपि यथासंख्यमन्तर्नित्तिः, कर्णशष्कुलिकादिरूपा तु बहिनिर्वृत्तिः । तत्र कदम्बकुसुमगोलकाकारमांसखण्डादिरूपाया अन्तनिवृत्तेः शब्दादिविषयपरिच्छेदहेतुर्यः शक्तिविशेषः स उपकरणेन्द्रियम् , शब्दादिश्च श्रोत्रादीन्द्रियाणां विषयः, आदिशब्दाद् रस-गन्ध-स्पर्शपरिग्रहः, तद्भावेन परिणतानि च तानि भाषावर्गणादिसंबन्धीनि द्रव्याणि च शब्दादिपरिणतद्रव्याणि, उपकरणेन्द्रियं च शब्दादिपरिणतद्रव्याणि च, तेषां परस्परं संबन्ध उपकरणेन्द्रिय-शब्दादिपरिणतद्रव्यसंबन्धः एष तावद् व्यञ्जनमुच्यते । अपरं चेन्द्रियेणाऽप्यर्थस्य व्यज्यमानत्वात् तदपि व्यञ्जनमुच्यते । तथा शब्दादिपरिणतद्रव्यनिकुरम्बमपि व्यज्यमानत्वाद् व्यञ्ज
Ma||११७॥
१ छ. 'कथं हि द्वि' । २ सन्नाऽवग्रहो द्विरूपो ग्रहणं यद्भवति व्यञ्जना-ऽर्थयोः । व्यञ्जनतश्च यदर्थस्तेनादौ तक वक्ष्ये ॥ १९३ ।। ३ व्यज्यते येनाऽर्थो घट इव दीपेन व्यजनं तच्च । उपकरणेन्द्रियशब्दादिपरिणतन्यसंबन्धः ॥ १९ ॥ ४ ज. 'मानक ।
Jan Education Internat
For Personal and Private Use Only
EMHwww.jaineltrary.org