SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ समा विशे० ॥११८॥ D नमभिधीयत इति । एवमुपलक्षणव्याख्यानात् त्रितयमपि यथोक्तं व्यञ्जनमवगन्तव्यम् । ततश्चेन्द्रियलक्षणेन व्यञ्जनेन शब्दादिपरिणतद्रव्यसंबन्धखरूपस्य व्यञ्जनस्याऽवग्रहो व्यञ्जनावग्रहः, अथवा तेनैव व्यञ्जनेन शब्दादिपरिणतद्रव्यात्मकानां व्यञ्जनानामवग्रहो व्यञ्जनावग्रहः; इत्युभयत्राऽप्येकस्य व्यञ्जनशब्दस्य लोपं कृत्वा समासः॥ इति गाथार्थः ॥ १९४ ॥ अत्राऽऽक्षेपं, परिहारं चाभिधित्सुराह अण्णाणं सो बहिराइणं व तकालमणुवलंभाओ। न तदंते तत्तो च्चिय उवलंभाओ तओ नाणं ॥१९५॥ स व्यञ्जनावग्रहोऽज्ञानं ज्ञानं न भवति, तस्योपकरणेन्द्रिय-शब्दादिपरिणतद्रव्यसंबन्धस्य कालस्तत्कालस्तस्मिन् ज्ञानस्यानुपलम्भात् स्वसंवेदनेनाऽसंवेद्यमानत्वात् । बधिरादीनामिव- यथा हि बधिरादीनामुपकरणेन्द्रियस्य शब्दादिविषयद्रव्यैः सह संबन्धकाले न किमपि ज्ञानमनुभूयते, अननुभूयमानत्वाच्च तन्नास्ति, तथेहाऽपीति भावः ॥ अत्रोत्तरमाह- 'न तदंते इत्यादि' नासौ जडरूपतया ज्ञानरूपेणाऽननुभूयमानत्वादज्ञानम् , किं तर्हि ?, सकोऽसौ व्यञ्जनावग्रहो ज्ञानमेव । कुतः?, तदन्ते- तस्य व्यञ्जनावग्रहस्यान्ते, तत एव ज्ञानात्मकस्यार्थावग्रहोपलम्भस्य भावात् , तथाहि- यस्य ज्ञानस्यान्ते तज्ज्ञेयवस्तूपादानात् तत एव ज्ञानमुपजायते तज्ज्ञानं दृष्टम् , यथार्थावग्रहपर्यन्ते तज्ज्ञेयवस्तूपादानत ईहासद्भावादर्थावग्रहो ज्ञानम् , जायते च व्यञ्जनावग्रहस्य पर्यन्ते तज्ज्ञेयवस्तूपादानात् तत एवार्थावग्रहज्ञानम् , तस्माद् व्यञ्जनावग्रहो ज्ञानम् ।। इति गाथार्थः ।। १९५ ॥ तदेवं व्यञ्जनावग्रहे यद्यपि ज्ञानं नानुभूयते, तथापि ज्ञानकारणत्वादसौ ज्ञानम् , इत्येवं व्यञ्जनावग्रहे ज्ञानाभावमभ्युपगम्योक्तम् । सांप्रतं ज्ञानाभावोऽपि तत्राऽसिद्ध एवेति दर्शयन्नाह तेकालम्मि वि नाणं तत्थरिथ तणुं ति तो तमव्वत्तं । बहिराईणं पुण सो अन्नाणं तदुभयाभावा ॥१९६॥ तत्कालेऽपि तस्य व्यञ्जनसंवन्धस्य कालेऽपि तत्राऽनुपहतेन्द्रियसंबन्धिनि व्यञ्जनावग्रहे ज्ञानमस्ति, केवलमेकतेजोऽवयवप्रकाशवत तनु-अतीवाऽल्पमिति; अतोऽव्यक्तं स्वसंवेदनेनापि न व्यज्यते । यद्यव्यक्तम् , कथं तदस्तीति ज्ञायते ? इति चेत् । मा त्वरिष्ठाः, 'जैइ वण्णाणमसंखेज्जसमइसद्दाइदव्वसब्भावे' इत्यादिनाऽनन्तरमेव तदस्तित्वयुक्तेर्वक्ष्यमाणत्वात् । दृष्टान्ते तु ज्ञानाभावेऽविप्रतिपत्ति १ अज्ञानं स बधिरादीनामिव तत्कालमनुपलम्भात् । न तदन्ते तत एवोपलम्भात् सको ज्ञानम् ॥ १९५ ॥ २ तत्कालेऽपि ज्ञानं तनाऽस्ति तनु इत्यतस्तदव्यक्तम् । बधिरादीनां पुनः सोऽज्ञानं तदुभयाभावात् ॥ १९६ ॥ ३ गाथा २०० । HD||११८॥ For Peso Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy