________________
विशे०
॥११९॥
रिति दर्शयन्नाह-बधिरादीनाम् , आदिशब्दादुपहतघ्राणादीन्द्रियाणां पुनः स ध्यञ्जनावग्रहोऽज्ञानं ज्ञानं न भवतीत्यत्राविपतिपत्तिरेव । कुतः, इत्याह- तच्च तदुभयं च तदुभयं तस्याऽभावाज्ज्ञानकारणत्वाभावात् , अव्यक्तस्याऽपि च ज्ञानस्याऽभावात् ॥ इति गाथार्थः ॥ १९६ ॥ ___ अथ पुनरप्याक्षेप, परिहारं चाभिधित्सुराह
केहमव्वत्तं नाणं च सुत्त-मत्ताइसुहुमबोहो व्व । सुत्तादओ सयं वि य विन्नाणं नावबुज्झति ॥ १९७ ॥
परः सासूयमाह- ननु कथं 'ज्ञानम् , अव्यक्तं च' इत्युच्यते ? तमः-प्रकाशाद्यभिधानवद् विरुद्धत्वाद् नेदं वक्तुं युज्यत इति भावः । अत्रोत्तरमनन्तरमेवोक्तम्- एकतेजोऽवयवप्रकाशवत् सूक्ष्मत्वादव्यक्तम् । अथ पुनरप्युच्यते- सुप्त-मत्त-मृञ्छितादीनां मूक्ष्मबोधवदव्यक्तं ज्ञानमुच्यत इति न दोषः । सुप्तादीनां तदात्मीयज्ञानं खसंविदितं भविष्यतीति चेत् । नैतदेवमित्याह- सुप्तादयः स्वयमपि तदात्मीयविज्ञानं नाऽवबुध्यन्ते न संवेदयन्ति, अतिसूक्ष्मत्वात् ॥ इति गाथार्थः ॥ १९७ ॥
आह- यदि तैरपि सुप्तादिभिस्तदात्मीयज्ञानं न संवेद्यते, तर्हि तत् तेषामस्तीत्येतत् कथं लक्ष्यते ?, इत्याह
लैक्खिजइ तं सिमिणायमाणवयणदाणाइचिट्ठाहिं । जं नामइपुवाओ विजंते वयणचिट्ठाओ ॥ १९८॥ तत् सुप्तादीनां ज्ञानमस्तित्वेन लक्ष्यते । कुतः?, स्वमायमानवचनदानादिचेष्टाभ्यः, सुप्तादयोऽपि हि स्वमायमानाद्यवस्थायां केचित् किमपि भाषमाणा दृश्यन्ते, शब्दिताश्चौघतो वाचं प्रयच्छन्ति, संकोच-विकोचा-ऽङ्गभङ्ग-जृम्भित-कूजित-कण्डूयनादिचेष्टाश्च कुर्वन्ति, न च तास्ते तदा वेदयन्ते, नापि च प्रबुद्धाः स्मरन्ति । तर्हि कथं तच्चेष्टाभ्यस्तेषां ज्ञानमस्तीति लक्ष्यते ?, इत्याह- 'जमित्यादि' यद् यस्मात् कारणाद् नाऽमतिपूर्वास्ता वचनादिचेष्टा विद्यन्ते, किन्तु मतिपूर्विका एव, अन्यथा काष्ठादीनामपि तत्प्रसङ्गात् । अतस्ताभ्यस्तत तेषामस्तीति लक्ष्यत एव, धूमादग्निरिव ॥ इति गाथार्थः ॥ १९८ ॥
आह- नन्वात्मीयमपि चेष्टितं किं कश्चिद् न जानाति, येन सुप्तादीनां स्वचेष्टिताऽसंवेदनमुच्यते ?, इत्याशङ्क्याह
॥१९॥
१ कथमन्यक्तं ज्ञानं च सुप्त-मत्तादिसूक्ष्मबोध इव । सुप्तादयः स्वयमपि च विज्ञानं नावबुध्यन्ते ॥ १९७ ॥ २ लक्ष्यते तत् स्वप्नायमानवचनदानादिचेष्टाभ्यः । यद् नाऽमतिपूर्वा विद्यन्ते वचनचेष्टाः ।। १९८ ॥