SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ विशे० ॥१२०॥ Jain Education Internat जग्गन्तो वि न जाणइ छउमत्थो हिययगोयरं सव्वं । जं तज्झवसाणाई जमसंखेज्जाई दिवसेण ॥ १९९॥ हृदयं मनो गोचरः स्थानं यस्य तद् हृदयगोचरं 'अध्यवसायनिकुरम्बं' इति गम्यते, तज्जाग्रदपि च्छद्मस्थः सर्वमपरिशेषं न जानाति न संवेदयते, आस्तां पुनः सुप्तः । कुतः १, इत्याह- अध्यवसानानि - अध्यवसायस्थानरूपाणि केवलिगम्यानि सूक्ष्माणि यत एकेनाऽप्यन्तर्मुहूर्तेनाऽसंख्येयानि यान्त्यतिक्रामन्ति, किं पुनः सर्वेणापि दिवसेन ? । न चैतानि च्छद्मस्थः सर्वाण्यपि संवेदयते । ततश्च यथैतानि च्छद्मस्थैरसंवेद्यमानान्यपि केवलिदृष्टत्वात् सच्चेनाऽभ्युपगम्यन्ते, तथा व्यञ्जनावग्रहज्ञानमपि ॥ इति गाथार्थः ॥ १९९ ॥ आह- ननु सुप्तादीनां ज्ञानं वचनादिचेष्टाभ्यो गम्यत इत्युक्तम्, तत्तावदभ्युपगच्छामः व्यञ्जनावग्रहे तु ज्ञानरूपतागमकं लिङ्गं न किञ्चिदुपलभामहे, अतो जडरूपत्वाद् नासौ ज्ञानमिति ब्रूमः, इत्याशङ्कयाह जैइ व णाणमसंखेज्जसमइमद्दाइदव्यसन्भावे । किह चैरमसमयसद्दाइदव्यविण्णाणसामत्थं ? ॥ २०० ॥ वाशब्दः पातनासूचकः, सा च कृतैव । ततश्च हन्त ! यद्यज्ञानं व्यञ्जनावग्रहः । क सति ?, इत्याह- असंख्येयसमयशब्दादिद्रव्यसद्भावेऽपि सति, इत्यपिशब्दो गम्यते । कथं तहिं चरमसमयशब्दादिद्रव्याणां विज्ञानजननसामर्थ्यम् ? न कथञ्चिदित्यर्थः । इदमुक्तं भवति - व्यञ्जनावग्रहे तावत् प्रतिसमयमसंख्येयान् समयान् यावच्छ्रोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्याणि संबध्यन्ते । ततश्च यद्यसंख्येयसमयान् यावच्छ्रोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्य संबन्धसद्भावेऽपि सति व्यञ्जनावग्रहरूपं ज्ञानं नाभ्युपगम्यते, कथं तर्हि चरमसमये श्रोत्रादीन्द्रियैः सह संबद्धानां शब्दादिविषयद्रव्याणां परेणाऽप्यर्थावग्रहलक्षणविज्ञानजननसामर्थ्यमिष्यते, तदभ्युपगन्तुं न युज्यत इति भावः । यदि हि शब्दादिविषयद्रव्याणां श्रोत्रादीन्द्रियैः सह संबन्धे आद्यसमयादेवाऽऽरभ्य ज्ञानमात्रा काचित् प्रतिसमयमाविर्भवन्ती नाभ्युपगम्यते, तर्हि चरमसमयेऽप्येकस्मादेवैषा न युज्यते, तथा च सत्यर्थावग्रहादिज्ञानानामप्यनुदयप्रसङ्गः ॥ इति गाथार्थः ॥ २०० ॥ १ जाग्रदपि न जानाति च्छद्मस्थो हृदयगोचरं सर्वम् । यत् तदध्यवसानानि यदसंख्येयानि दिवसेन ॥ १९९ ॥ २ एके तु यथा जलकणैर्द्वित्रिः सिकोऽप्यभिनवः शरावो नार्द्रीभवति, पुनः पुनः सिच्यमानस्तु शनैस्तिम्यतिः एवमिन्द्रियैरर्था गृह्यमाणा व्यादिसमयेषु न व्यक्तीभवन्ति, पुनः पुनरवग्रहे तु तथा स्युः, इति व्यक्तावग्रहात् प्रागव्यक्तावग्रहः, एव व्यञ्जनावग्रहः, अव्यक्तं वस्तु च व्यञ्जनम् इति साधयन्ति । एतच्च न युक्तम्, सर्वविषयिविषयाणां व्यक्ताव्यक्तत्वात् तथा च दर्शनवत् सर्वेन्द्रियेभ्योऽपि व्यञ्जनावग्रहः स्यात्, न चैतत् सांप्रतम्, “न चक्षुरनिद्रियाभ्याम् (तस्वार्थ० १-१९ ) इति सूत्रेण तस्य सर्वेन्द्रियाजन्यत्यात्, इत्यपि द्रष्टव्यम् ॥ ३ यदि वाऽज्ञानमसंख्येयसमयशब्दादिद्रव्यसद्भावे । कथं चरमसमयशब्दादिव्यविज्ञानसामर्थ्यम् ? ॥ २०० ॥ ४ घ. छ. ज. 'चरिम' । For Personal and Private Use Only वृहद्वृत्तिः । ६०॥१२०॥ www.jainelltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy