________________
विशे०
बृहद्वृत्तिः ।
॥१२॥
तथाहि__सव्वहा न वीसुं सव्वेसु वि तं न रेणुतल्लं व । पत्तेयमणिच्छंतो कहमिच्छास समुदए नाणं ? ॥२०१॥
यद् वस्तु सर्वथा सर्वप्रकारैर्विष्वक् पृथग् नास्ति तत् समुदायेऽपि नाऽभ्युपगन्तव्यम् , यथा रेणुकणनिकरे प्रतिरेणुकमविद्यमानं तैलम् । एवं चेत् , तर्हि त्वमपि प्रत्येकमनिच्छन् कथं समुदये ज्ञानमिच्छसि । इदमुक्तं भवति- यदीन्द्रियविषयसंबन्धस्य प्रथमसमयादारभ्य व्यञ्जनावग्रहसंबन्धिनोऽसंख्येयान् समयान् यावत् प्रतिसमयं पुष्टिमाबिभ्रती ज्ञानमाा काश्चिदपि नेच्छास, तर्हि चरमसमयशब्दादिविषयद्रव्यसंबन्धेन संपूर्ण समुदायेऽपि कथं तामिच्छसि ?- चरमसमयशब्दादिविषयद्रव्यसंबन्धे यदर्थावग्रहज्ञानमभ्युपगम्यते, तदपि प्रत्येकमसच्चरमसिकताकणे तैलवद् न प्रामोतीति भावः । तस्मात् तिलेषु तैलवत् सर्वेष्वपि समयेषु प्रत्येकं यच्च यावच्च ज्ञानमस्तीति प्रतिपत्तव्यम् ॥ इति गाथार्थः ॥२०१॥
किञ्च
समुदाए जइ णाणं देसूणे समुदए कहं नत्थि । समुदाए वाऽभूयं कह देसे होज तं सयलं ? ॥२०२॥
समुदायवानवादिन् ! यदि विषयद्रव्यसंबन्धसमयानामसंख्येयानां समुदाये ज्ञानमर्थावग्रहलक्षणमभ्युपगम्यते, तर्हि चरमसमयलक्षणो योऽसौ देशस्तेन न्यूने समुदाये-चरमैकसमयोनेष्वसंख्यातेषु समयेष्वित्यर्थः, तत् कथं नास्ति', समस्त्येव,प्रमाणोपपन्नत्वात्। तथाहि- सर्वेष्वपि शब्दादिद्रव्यसंबन्धसमयेषु ज्ञानमस्तीति प्रतिजानीमहे, ज्ञानोपकारिशब्दादिद्रव्यसंबन्धसमयसमुदायैकदेशत्वादिति हेतुः, अर्थावग्रहसमयवदिति दृष्टान्तः। अत्राह- ननु शब्दादिविषयोपादानसमयसमुदाये ज्ञानं केनाऽभ्युपगम्यते, येन समुदायैकदेशत्वात् प्रथमादिसमयेषु सर्वेष्वपि तत् प्रतिज्ञायते, मया ोकस्मिन्नेव चरमसमये शब्दादिद्रव्योपादाने ज्ञानप्रसव इष्यते, इत्याशङ्कयाह- 'समुदाए वाऽभूयमित्यादि ' चशब्दो वाशब्दो वा पातनायाम् , सा च कृतेव । तत्र यद्येकस्मिन्नेव चरमसमये ज्ञानमभ्युपगम्यते , तदाऽसौ सर्वसमयसमुदायापेक्षया तावदेकदेश एव । ततश्चानेनेकदेशेनोने शेषसमयसमुदाये यदभूतं ज्ञानं तत्कथं हन्त ! चरमसमयलक्षणे देशेऽकस्मादेव सकलमखण्डं भवेत् , अप्रमाणोपपन्नत्वात् ?; तथाहि- नैकस्मिंश्वरमशब्दादिद्रव्योपादानसमये ज्ञानमुपजायते, एकसमयमात्र
१ यत् सर्वधा न विष्वक् सर्वेष्वपि तद् न रेणुतैलमिव । प्रत्येकमनिच्छन् कथमिच्छसि समुदये ज्ञानम् ? ॥ २०१॥ २ क. छ. 'ब्दादिद्र' । १ समुदाये यदि ज्ञान देशोने समुदये कथं नास्ति । समुदाये वाऽभूतं कथं देशे भवेत् तत् सकलम् ॥ २०२॥
॥१२१॥