SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विशे० ॥१२२॥ शब्दादिद्रव्योपादानात्, व्यञ्जनावग्रहाऽऽद्यसमयवदिति । स्यादेतत्, चरमसमयेऽर्थावग्रहज्ञानमनुभवप्रत्यक्षेणाऽप्यनुभूयते, ततः प्रत्यक्षविरोधिनीयं प्रतिज्ञा । तदयुक्तम् , 'चरमसमय एव समग्रं ज्ञानमुत्पद्यते' इतिभवत्पतिज्ञातस्यैव प्रत्यक्षविरोधात्, चरमतन्तौ समस्तपटोत्पादवचनवत् । तथा, सर्वेष्वपि शब्दादिद्रव्यसंवन्धसमयेषु ज्ञानमस्तीत्यादिपूर्वोक्तानुमानविरोधश्च भवत्पक्षस्य ॥ इति गाथार्थः ।। २०२ ॥ तस्मात् किमिह स्थितम् ? , इत्याह तंतू पडोवगारी न समत्तपडो य, समुदिया ते उ। सव्वे समत्तपडओ तह नाणं सव्वसमएसु ॥ २०३ ॥ यथैकस्तन्तुः पटोपकारी वर्तते, तमन्तरेणाऽपि समग्रस्य तस्याऽभावात् , न चासौ तन्तुरेतावता समस्तः पटो भवति, पटैकदेशत्वात् तस्य, समुदिताः पुनस्ते तन्तवः सर्वे समस्तपटव्यपदेशभाजो भवन्ति; तथानापि सर्वेष्वपि समुदितेषु समयेषु ज्ञानं भवति, नैकस्मिश्चरमसमये । ततश्चार्थावग्रहसमयात् पूर्वसमयेषु तदेव ज्ञानमतीवाऽस्फुटं व्यञ्जनावग्रह उच्यते; चरमसमये तु तदेव किश्चित्स्फुटतरावस्थामापन्नमर्थावग्रह इति व्यपदिश्यते । अतो यद्यपि सुप्त-मत्त-मूच्छितादिज्ञानस्येव व्यक्तं तथाविधं व्यञ्जनावग्रहज्ञानसाधकं लिङ्ग नास्ति, तथापि यथोक्तयुक्तितो व्यञ्जनावग्रहे सिद्धं ज्ञानम् ॥ इति गाथार्थः ॥ २०३॥ तत्त्व-भेद-पर्यायैाख्या , तत्र तत्त्वं व्यञ्जनावग्रहस्य स्वरूपमुक्तम् । अथ तस्य भेदान् निरूपयितुमाह नयण-मणोवजिदियभेयाओ वंजणोग्गहो चउहा । उवघाया-गुग्गहओ जं ताई पत्तकारीणि ॥ २०४ ॥ स च व्यञ्जनावग्रहश्चतुर्धा भवति । कुतः ?, इत्याह- नयन-मनोवर्जेन्द्रियभेदात् । इदमुक्तं भवति-विषयस्य, इन्द्रियस्य च यः परस्परं संबन्धः प्रथममुपश्लेषमात्रम् । तयञ्जनावग्रहस्य विषयः। स च विषयेण सहोपश्लेषः प्राप्यकारिष्वेव स्पर्शन-रसन घ्राण-श्रोत्रलक्षणेषु चतुरिन्द्रियेषु भवति, न तु नयन-मनसोः । अतस्ते वर्जयित्वा शेषस्पर्शनादीन्द्रियचतुष्टयभेदाच्चतुर्विध एव व्यञ्जनावग्रहो भवति । नन्विन्द्रियत्वे तुल्येऽपि केयं मुखपरीक्षिका- यच्चतुर्यु स्पर्शनादीन्द्रियेषु सोऽभ्युपगम्यते,नान्यत्र ?, इत्याह- 'उवघायेत्यादि यद् यस्मात् तान्येव स्पर्शन-रसन-घ्राण-श्रोत्रलक्षणानि चत्वारीन्द्रियाणि प्राप्तकारीणि, न तु नयन-मनसी । ततो यथोक्तेन्द्रियचतुष्कभेदाचतुर्विध एवाऽसौ भवति, इति कात्र मुखपरीक्षिका ? इति । तत्र विषयभूतं शब्दादिकं वस्तु प्राप्त संश्लेषद्वारेणाऽऽसादितं कुर्वन्ति परिच्छिन्द १ तन्तुः पटोपकारी न समस्तपटश्च, समुदितास्ते । सर्वे समस्तपटकस्तथा ज्ञावं सर्वसमयेषु ॥ २०३ ॥ २ ज, 'सर्वेऽपि स' । ३ नयन-मनोवर्जेन्द्रियभेदाद् व्यञ्जनावग्रहश्चतुर्था । अपघाता-ऽनुग्रहतो यत् तानि प्राप्तकारीणि ॥ २० ॥ ४ घ. छ. 'यत्वतुल्यत्वेऽपि'। ॥१२२॥ PAGASCAR For Pesos and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy