SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ विशे० बृहद्वत्तिः । ॥१२३॥ बालकहर न्तीति प्राप्तकारीणि प्राप्यकारीणि स्पृष्टार्थग्राहिणीत्यर्थः । कुतः पुनरेतान्येव प्राप्यकारीणि ?, इत्याह- उपघातश्चानुग्रहश्चोपघाताऽनुग्रही तयोर्दर्शनात्- कर्कशकम्बलादिस्पर्शने, त्रिकटुकाद्यास्वादने, अशुच्यादिपुद्गलाऽऽघाणे, भेर्यादिशब्दश्रवणे, त्वक्षणनाापघातदर्शनात् चन्दना-ङ्गना-हंसतूलादिस्पर्शने, क्षीर-शर्कराधास्वादने,कर्पूरपुद्गलाद्याघाणे, मृदु-मन्द्रशब्दाद्याकर्णने तु शैत्याद्यनुग्रहदर्शनादित्यर्थः। नयनस्य तु निशितकरपत्र-सेल्लु-भल्लादिवीक्षणेऽपि पाटनायुपघातानवलोकनात्, चन्दना-गुरु-कर्पूराद्यवलोकनेऽपि शैत्याद्यनुग्रहाननुभवात्ः मनसस्तु बयादिचिन्तनेऽपि दाहायुपघाताऽदर्शनात्, जल-चन्दनादिचिन्तायामपि च पिपासोपशमाद्यनुग्रहासंभवाच्च ।। इति गाथार्थः ॥२०॥ अत्र परः प्राहजुज्जइ पत्तविसयया फरिसण-रसणे न सोत्त-घाणेसु । गिण्हंति सविसयमिओ जं ताइं भिन्नदेसं पि ॥२०५॥ प्राप्तः स्पृष्टो विषयो ग्राह्यवस्तुरूपो ययोस्ते प्राप्तविषये तयोर्भावः प्राप्तविषयता सा युज्यते घटते । कस्मिन्?, इत्याह- स्पर्शनं च रसनं चेति समाहारद्वन्द्वस्तस्मिन् , स्पर्शन-रसनेन्द्रियद्वय इत्यर्थः। अनभिमतप्रतिषेधमाह-न श्रोत्र-घ्राणयोः प्राप्तविषयता युज्यते, यद् यस्मात् कारणादितो विवक्षितात् स्वदेशाद् भिन्नदेशमपि स्वविषयमेते गृहीतः, अस्याऽर्थस्याऽनुभवसिद्धत्वात् , न हि शब्दः कश्चिच्छ्रोप्रेन्द्रिये प्रविशन्नुपलभ्यते, नापि श्रोत्रेन्द्रियं शब्ददेशे गच्छत् समीक्ष्यते । न चाभ्यामन्येनाऽपि प्रकारेण विषयस्पर्शनं घटते, 'दूर एष कस्याऽपि शब्दः श्रूयते' इत्यादिजनोक्तिश्च श्रूयते । कर्पूर-कुसुम-कुङ्कुमादीनां तु दूरस्थानामपि गन्धो निर्विवादमनुभूयते, दृश्यते च । तस्माच्छ्ोत्र-घ्राणयोः प्राप्तविषयता न युज्यत एव ॥ इति गाथार्थः ॥२०५॥ अत्रोच्यतेपावंति सद्द-गन्धा ताई गंतुं सयं न गिण्हन्ति । जं ते पोग्गलमइया सक्किरिया वाउवहणाओ ॥२०६॥ धूमो व्व, संहरणओ दाराणुविहाणओ विसेसेणं । तोयं व नियंबाइसु पडिघायाओ य वाउ व्व ॥२०७॥ व्याख्या- 'पावंति सद्द-गन्धा ताई ति' शब्द-गन्धौ कर्तृभूतौ, ते श्रोत्र-घाणेन्द्रिये कर्मतापन्ने, अन्यत आगत्य प्राप्नुतः स्पृशत १ युज्यते प्राप्तविषयता स्पर्शन-रसने न श्रोत्र-प्राणयोः । गृहीतः स्वविषयमितो यत् ते मिनदेशमपि ॥२०५॥ २ घ. छ. ज. 'सोय-या '1३ क. ग. 'कुम-कुसुमादी' । ४ प्राप्नुतः शब्द-गन्धी ते गत्वा स्वयं न गृह्णीतः। यत् तौ पुद्गलमयी सक्रियो वायुवानात् ॥ २०६॥ धूम इव, संहरणतो द्वारानुविधानतो विशेषेण । तोयमिव नितम्बादिषु प्रतिघाताच वायुरिव ॥ २० ॥ ॥१२३॥ Educan For Personal Private Use Only www.jaineitrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy