________________
विशे० ॥१२४॥
इति प्रतिज्ञा । अनभिमतमकारप्रतिषेधमाह- 'गंतु सयं न गिण्हति ति 'ताई' इत्यत्रापि संबध्यते । ततश्च ते श्रोत्र-घ्राणे कर्तृभूते पुनः स्वयं शब्द-गन्धदेशं गत्वा न गृहीतः 'शब्द-गन्धौ'इति विभक्तिव्यत्ययेन संबध्येते , आत्मनोऽवाह्यकरणत्वात् श्रोत्र-प्राणयोः, स्पर्शनरसनवदिति । ननु शब्द-गन्धावपि श्रोत्र-घ्राणे कुतः प्राप्नुतः १, इत्याह- 'जं ते पोग्गलमइया सक्किरिय त्ति' यद् यस्मात्कारणात् तौ शब्द-गन्धौ सक्रियौ गत्यादिक्रियावन्तौ, तस्मादन्यत आगत्य श्रोत्र-घ्राणे प्राप्नुतः । कथम्भूतौ सन्तौ सक्रियौ तौ , इत्याहपुद्गलमयौ । यदि पुनरपौद्गलिकत्वादमृतौ स्याताम् , तदा यथा जैनमतेन सक्रियेष्वाकाशादिषु गतिक्रिया नास्ति, तथैतयोरपि न स्यात्, इत्यालोच्य पुद्गलमयत्वविशेषणमकारि, पुद्गलमयत्वे सति सक्रियाविति भावः । यच्चैवम्भूतम् , तत्र गतिक्रियाऽस्त्येव, यथा पुद्गलस्कन्धेष्विति ॥ आह- ननु पुद्गलमयत्वेऽपि सति शब्द-गन्धयोतिक्रियाऽस्तीति कुतो निश्चीयते ?, इत्याह- 'वाउवहणाओ धूमो व्व त्ति' वायुना वहनं नयनं वायुवहनं तस्मात् । इदमुक्तं भवति- यथा पवनपटलेनोह्यमानत्वाद् धृमो गतिक्रियावान् , एवं शब्द-गन्धावपि तेनोह्यमानत्वात् तद्वन्तौ । तथा, संहरणतो गृहादिपु पिण्डीभवनाद् धूमवदेव क्रियाभाजी तौ । तथा, विशेषेण द्वारानुविधानतस्तोयवत् तद्वन्तावेतौ । तथा, पर्वतनितम्बादिषु प्रतिघातात् प्रतिस्खलनाद् वायुवदेतौ गतिक्रियाऽऽश्रयौ ।। इति गाथाद्वयार्थः॥२०६।।२०७॥
हेत्वन्तरेणाऽपि शब्द-गन्धयोः सयुक्तिकं गतिक्रियावत्वं समर्थयन्नाह
गिण्हंति पत्तमत्थं उवघाया-गुग्गहावलद्धीओ । बाहिज्ज-पूइ-नासारिसादओ कहमसंबढे ? ॥ २०८॥ .
प्राप्तमन्यत आगत्यात्मना सह संबद्धं शब्द-गन्धलक्षणमर्थ गृह्णीतः 'श्रोत्र-घ्राणेन्द्रिये' इति गम्यते । एतेन शब्द-गन्धयोरागमनक्रिया प्रतिज्ञाता भवति । कुतः प्राप्तमेव गृहीतः १, इत्याह- उपघातश्चानुग्रहश्चपिघाता-ऽनुग्रही तयोरुपलब्धेः, तथाहि-भेयोदिमहाशब्दप्रवेशे श्रोत्रस्य बाधिर्यरूप उपघातो दृश्यते, कोमलशब्दश्रवणे त्वनुग्रहः, घ्राणस्याऽप्यशुच्यादिगन्धप्रवेशे पूतिरोगा-ऽ व्याधिरूप उपघातोऽवलोक्यते, कर्पूरादिगन्धप्रवेशे त्वनुग्रहः । शब्द-गन्धासंबन्धेऽपि श्रोत्र घ्राणयोरेतावनुग्रहो-पघातौ भविष्यत इति चेत्, इत्याह'बाहिज्जेत्यादि ' बाधिर्य च पूतिश्च नासाकोथलक्षणो रोगविशेषः, नासासि च, तानि आदिर्येषां शेषोपघाता-ऽनुग्रहाणां ते तथाभूताः कथं घामुपगच्छेयुः । क सति ?, इत्याह- असंबद्धे स्वहेतुभूते शब्द-गन्धलक्षणे 'वस्तुनि' इति गम्यते । इदमुक्तं भवति-श्रोत्रघाणाभ्यां सह संबद्धा एव शब्द-गन्धाः स्वकार्यभूतं बाधिर्याापघातम् , अनुग्रहं वा जनयितुमलम् , नाऽन्यथा, सर्वस्याऽपि तज्जनन
TO॥१२४॥ पाप्रतिप्रसङ्गात् ॥ इति गाथार्थः॥ २०८॥
ज. 'था जिन' । २ गृह्णीतः प्राप्तमर्थमुपघाता-नुग्रहोपलब्धेः । बाधिर्य-पूति-नासार्शआदयः कथमसंबद्धे ! ॥ २० ॥
Jan Education Inter
For Personal and Private Use Only
www.jaineltrary.ory