SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ वृहदत्तिः । तदेवं स्पर्शन-रसन-घ्राण श्रोत्राणां प्राप्यकारित्वं समर्थितम् ; सांप्रतं 'नयण-मणोवजिंदियभेयाओ' इत्यादिना सूचितं विशे० नयन-मनसोरमाप्यकारित्वमभिधित्सुर्नयनस्य तावदाह लोयणमपत्तविसयं मणो व्व जमणुग्गहाइसुण्णं ति । जल-सूरालोयाइसु दीसंति अणुग्गह-विघाया॥२०९॥ ॥१२५॥ अमाप्तोऽसंबद्धोऽसंश्लिष्टो विषयो ग्राह्यवस्तुरूपो यस्य तदप्राप्तविषयं लोचनम् , अप्राप्यकारीत्यर्थः, इति प्रतिज्ञा । कुतः ?, इत्याहयद् यस्मादनुग्रहादिशून्यम्, आदिशब्दादुपघातपरिग्रह:- ग्राह्यवस्तुकृतानुग्रहो-पघातशून्यत्वादित्यर्थः, अयं च हेतुः। मनोवदिति दृष्टान्तः। - यदि हि लोचनं ग्राह्यवस्तुना सह संबध्य तत्परिच्छेदं कुर्यात् , तदाऽग्न्यादिदर्शने स्पर्शनस्येव दाहायुषघातः स्यात् । कोमलतुल्यायव लोकने त्वनुग्रहो भवेत् , न चैवम् , तस्मादपाप्यकारि लोचनमिति भावः । मनस्यप्राप्यकारित्वं परस्याऽसिद्धम् , इति कथं तस्य दृष्टान्त त्वेनोपन्यासः? इति चेत् । सत्यम् , किन्तु वक्ष्यमाणयुक्तिभिस्तत्र तत् सिद्धम् , इति निश्चित्य तस्येह दृष्टान्तत्वेन प्रदर्शनम् , इत्यदोषः । R अथ परो हेतोरसिद्धतामुद्भावयन्नाह- 'जल-मूरेत्यादि' आदिशब्दः, आलोकशब्दश्च प्रत्येकमभिसंवध्यते । ततश्च जलादीनामालोके | लोचनस्याऽनुग्रहो दृश्यते, सूरादीनां त्वालोके उपघात इति । अतो 'अनुग्रहादिशून्यत्वात्' इत्यसिद्धो हेतुरित्यर्थः । इदमुक्तं भवति जल-घृत-नीलवसन-वनस्पती-न्दुमण्डलायवलोकनेन नयनस्य परमाश्वासलक्षणोऽनुग्रहः समीक्ष्यते; सूर-सितभित्त्यादिदर्शने तु जलविगलनादिरूप उपघातः संदृश्यत इति । अतः किमुच्यते- जमणुग्गहाइसुण्णं ति' ॥ इति गाथार्थः ॥ २०९ ॥ अत्रोत्तरमाह डेज्जेज पाविउं रविकराइणा फरिसणं व को दोसो ? । मणेज अणुग्गहं पिव उवघायाभावओ सोम्मं ॥२१॥ अयमत्र भावार्थ:- अस्मदभिप्रायाऽनभिज्ञोऽप्रस्तुताभिधायी परः, न हि वयमेतद् ब्रूमो यदुत-चक्षुषः कुतोऽपि वस्तुनः सकाशात् कदाचित् सर्वथैवानुग्रहो-पाघातौ न भवतः । ततो रविकरादिना दाहाद्यात्मकेनोपघातवस्तुना परिच्छेदानन्तरं पश्चाच्चिरमवलोकयतः प्रतिपत्तुश्चक्षुः पाप्य समासाद्य स्पर्शनेन्द्रियमिव दह्येत-दाहादिलक्षणस्तस्योपघातः क्रियेतेत्यर्थः । एतावता चाआप्यकारिचक्षुर्वा| दिनामस्माकं को दोषः १ न कश्चित् , दृष्टस्य बाधितुमशक्यत्वादिति भावः । तथा यत् स्वरूपेणैव सौम्यं शीतलं शीतरश्मि वा जल १ गाथा २०४ । २ लोचनमप्राप्ताविषयं मन इव यवनुग्रहादिशून्यामिति । जल-सूरालोकादिषु पश्येते अनुग्रह-विधातौ ॥ २०९ ॥ ३ दह्येत प्राप्य रविकरादिना स्पर्शनामिव को दोषः । मन्येताउनुग्रहमिवोपघाताभावतः सौम्यम् ॥ २१ ॥ COOPPER ॥१२५॥ Jan Education Inter For Personal and Private Use Only www.jaineitrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy