SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । विशे० ॥१२६॥ PIPPIPEPARACHNPAPSPAPARIHARIPPROACHARIRIDINDIADRISTIBIHAR घृत चन्द्रादिकं वस्तु, तस्मिंश्चिरमवलोकिते उवघाताभावादनुग्रहमिव मन्येत चक्षुः, ' को दोपः ?' इत्यत्राऽपि संबध्यते, न कश्चिदित्यर्थः ॥ इति गाथार्थः ॥२१॥ आह- याक्तन्यायेनोपघातका-ऽनुग्राहकवस्तुन्युपघाता-ऽनुग्रहाभावं चक्षुषो न ब्रूषे, तर्हि यद् ब्रूपे तत् कथय, इत्याशङ्कयाह गंतुं न रूवदेसं पासइ पत्तं सयं व नियमोऽयं । पत्तेण उ मुत्तिमया उवधाया-गुग्गहा होज्जा ॥ २११ ।। ___ अयं नियमः- इदमेवाऽस्माभिनियम्यत इत्यर्थः । किं तत् ?, इत्याह- रूपस्व देशो रूपदेश आदित्यमण्डलादिसमाक्रान्तप्रदेशरूपस्तं गत्वोत्प्लवनतस्तं समाश्लिष्य चक्षुर्न पश्यति न परिच्छिनत्ति, अन्यस्याऽश्रुतत्वाद् 'रूपम्' इति गम्यते । 'पत्तं सयं व त्ति' स्वयं वाऽन्यत आगत्य चक्षुर्देशं प्राप्त समागतं रूपं चक्षुर्न पश्यति, किन्त्वप्राप्तमेव योग्यदेशस्थं विषयं तत् पश्यति ॥ अत्राह परः- नन्वनेन नियमनापाप्यकारित्वं चक्षुषः प्रतिज्ञातं भवति । न च प्रतिज्ञामात्रेणैव हेतूपन्यासमन्तरेण समीहितवस्तुसिद्धिः। अतो हेतुरिह वक्तव्यः । 'जमणुग्गहाइसुण्णं ति' इत्यनेन पूर्वोक्तगाथावयवेन विषयकृतानुग्रहो-पघातशून्यत्वलक्षणोऽयमभिहित एवेति चेत् । अहो ! जराविधुरितस्येवै सूरेविस्मरणशीलता, यतो 'जेमणुग्गहाइसुण्णं ति' इत्यनेन विषयादनुग्रहो-पघातौ चक्षुषो निषेधयति, डेंजेज पावित्रं रविकराइणा फरिसणं व ' इत्यादिना तु पुनरपि ततस्तौ तस्य समनुजानीते, अतो न विद्मः, कोऽप्येष वचनक्रम इति । नैतदेवम् , । अभिप्रायाऽपरिज्ञानात् , यतः प्रथमत एव विषयपरिच्छेदमात्रकालेऽनुग्रहो-पघातशून्यता हेतुत्वेनोक्ता, पश्चात्तु चिरमवलोकयतः प्रतिपत्तुः प्राप्तेन रविकरादिना, चन्द्रमरीचि नीलादिना वा मूर्तिमता निसर्गत एव केनाऽप्युपघातकेन, अनुग्राहकेण च विषयेणोपघाताऽनुग्रहौ भवेतामपीति । एतदेवाह- 'पत्तेण उ मुत्तिमयेत्यादि अनेनाऽभिप्रायेण तो पुनरपि समनुज्ञायेते, न पुनर्विस्मरणशीलतया । यदि पुनर्विषयपरिच्छित्तिमात्रमपि तमपाप्य चक्षुर्न करोतीति नियम्यते, तदा वहि-विष-जलधि-कण्टक-करवाल-करपत्र-सौवीराजनादिपरिच्छित्तावपि तस्य दाह-स्फोट-क्लेद-पाटन-नीरोगतादिलक्षणोपघाता-ऽनुग्रहप्रसङ्गः। न हि समानायामपि प्राप्तौ रविकरादिना तस्य भवन्ति दाहादयः, न वह्वयादिभिः । तस्माद् व्यवस्थितमिदम्-विषयमप्राप्यैव चक्षुः परिच्छिनत्ति, अञ्जन-दहनादिकृताऽनुग्रहो-पघातशून्यत्वात् , मनोवत् । परिच्छेदानन्तरं तु पश्चात्याप्लेन केनाऽप्युपघातकेन, अनुग्राहकेण वा मूर्तिमता द्रव्येण तस्योपघाता-ऽनुग्रही न निषिध्येते, विष शर्करादिभक्षणे मूर्छा-स्वास्थ्यादय इव मनस इति ॥ अत्राऽपरः प्राह-नयनाद् नायना रश्मयो निर्गत्य प्राप्य च रविबिम्बरश्मय इव वस्तु प्रकाशयन्तीति नयनस्य प्राप्यकारिता १ गस्वा न रूपदेशं पश्यति प्राप्तं स्वयं वा नियमोऽयम् । प्राप्तेन तु मूर्तिमतोपघाता-उनुग्रही भवेताम् ॥ २१ ॥ २ गाथा २०९ । ३ प.छ. 'व पुनर्वि'। ४ गाथा २१० । Jan Education intem For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy