________________
विशे०
PARA
R
॥१२७॥
RASTRATORS
प्रोच्यते । सूक्ष्मत्वेन, तैजसत्वेन च तेषां वयादिभिर्दाहादयो न भवन्ति, रविरश्मिषु तथादर्शनात् ।। तदेतदयुक्ततरम् , तेषां प्रत्यक्षादिप्रमाणाग्राह्यत्वेन श्रद्धातुमशक्यत्वात् , तथाविधानामप्यस्तित्वकल्पनेऽतिप्रसङ्गात् । वस्तुपरिच्छेदाऽन्यथानुपपत्तेस्ते सन्तीति विकल्प्यन्त इति चेत् । न, तानन्तरेणाऽपि तत्परिच्छेदोपपत्तेः , न हि मनसो रश्मयः सन्ति । न च तदप्राप्त वस्तु न परिच्छिनत्ति, वक्ष्यमाणयुक्तितस्तस्य तत्सिद्धेः । न च रविरश्म्युदाहरणमात्रेणाऽचेतनानां नयनरश्मीनां वस्तुपरिच्छेदो युज्यते, नख-दन्त-भाल-तलादिगतशरीरश्मीनामपि स्पर्शविषयवस्तुपरिच्छेदप्रसङ्गात् । इत्यलं विस्तरेण ॥ इति गाथार्थः ॥ २११ ॥
तदेवमञ्जन-ज्वलनादिविषयविहितानुग्रहो-पघातशून्यत्वलक्षणहेतोरमाप्यकारितां चक्षुषः प्रसाध्य हेत्वन्तरेणापि तस्य तां प्रसाधयितुमाहजइ पत्तं गेण्हेज उ, तग्गयमंजण-रओ-मलाईयं । पेच्छेन्ज, जं न पासइ अपत्तकारि तओ चक्टुं ॥२१२॥
यदि तु प्राप्त विषयं चक्षुर्ग्रहीयादित्युच्यते, तदा तद्गतमात्मसंबद्धमञ्जन-रजो-मल-शलाकादिकं पश्येदवगच्छेत् , तस्य निर्विवादमेव तत्प्राप्तत्वेनोपलब्धेः; यस्माच्च तद् न पश्यति, ततोऽप्राप्तकारि चक्षुरिति स्थितम् । यद्यप्राप्यकारि चक्षुः, ताप्राप्तत्वाविशेषात् सर्वस्याऽप्यर्थस्याऽविशेषेण ग्राहकं स्यात् , न प्रतिनियतस्येति चेत् । न, ज्ञान-दर्शनावरणादेस्तत्पतिबन्धकस्य सद्भावात् , मनसा व्यभिचाराच, तथाहि-अप्राप्यकारित्वे सत्यपि नाऽविशेषेण सर्वार्थेषु मनः प्रवर्तते, इन्द्रियाद्यप्रकाशितेषु सर्वथाऽदृष्टा-ऽश्रुतार्थेषु तत्मवृत्त्यदर्शनात् । इत्यलं प्रसङ्गेन ॥ इति गाथार्थः ॥ २१२॥
तदेवं व्यवस्थापिता चक्षुषोपाप्यकारिता । अथ दृष्टान्तीकृतस्य मनसस्तदसिद्धां परो मन्येत, इत्यतस्तस्यापि तां सिसाधयिषुः पूर्वपक्षमुत्थापयन्नाहगें] नेएण मणो संबज्झइ जग्गओ व सिमिणे वा। सिद्धमिदं लोयम्मि वि अमुगत्थगओमणो मे त्ति ॥२१३॥
'गंतु देहाद् निर्गत्य ज्ञेयेन मेरुशिखरस्थाजिनप्रतिमादिना संवध्यते संश्लिष्यते मनः। कस्यामवस्थायाम् ?, इत्याह-जाग्रतः, खने वा । अनुभवसिद्धं चैतत् , न च ममैव, किन्तु सिद्धमिदं लोकेऽपि, यतस्तत्राऽप्येवं वक्तारो भवति- अमुत्र मे मनो गतमिति । अतः प्राप्यकारि मनः॥ इति प्रेरकगाथार्थः ॥ २१३ ॥
यदि प्राप्तं गृहीयात् , तद्गतमजन-रजो-मकादिकम् । पश्येत्, यद् न पश्यति अप्राप्तकारि ततश्चक्षुः ॥२१२ ॥ २ गत्वा ज्ञेयेन मनः संबध्यते जाग्रतो वा स्वप्ने वा । सिद्धमिदं लोकेऽपि अमुकार्थगतं मनो मे इति ॥२१३ ॥
॥१२७॥
Jan Education International
For Personal and Private Use Only
www.jaineltrary.ary