SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ विशे० बृहद्वृत्तिः । ॥१२८॥ STO अत्रोत्तरमाहनाणुग्गहो-वघायाभावाओ लोयणं व, सो इहरा । तोय-जलणाइचिन्तणकाले जुज्जेज दोहिं पि ॥ २१४ ॥ न 'ज्ञेयेन सह संपृच्यते मनः' इति गम्यते । कुतः ?, इत्याह-'अणुग्गहो-बघायाभावाउ ति' ज्ञेयकृतानुग्रहो-पघाताभावात् , लोचनवत् । यदि तस्य ज्ञेयेन सह संपर्कः स्यात् तदा किं स्यात् ? , इत्याह- 'सो इहर त्ति' तद् मन इतरथा- ज्ञेयसंपर्केऽभ्युपगम्यमाने, तोय-ज्वलनादिविषयचिन्तनकाले द्वाभ्यामप्यनुग्रहो-पघाताभ्यां युज्येत- तोय-चन्दनादिचिन्तनकाले शैत्याद्यनुभवनेन स्पर्शनवदनुगृह्येत, दहन-विष-शस्त्रादिचिन्तनसमये तु तद्वदेवोपहन्येतेति भावः; न चैवम् । तस्माल्लोचनवदप्राप्यकार्येव मनः ।। इति गाथार्थः ।।२१४॥ किञ्च, मनसः पाप्यकारितावादिनः प्रष्टव्याः । किम् ?, इत्याहदेव्वं भावमणो वा वएज्ज जीवो य होइ भावमणो । देहव्वावित्तणओ न देहबाहिं तओ जुत्तो ॥ २१५॥ इह मनस्तावद् द्विधा- द्रव्यमनः, भावमनश्चेति । अतः मूरिः परं पृच्छति- 'दव्वं ति ' द्रव्यमनः, भावमनो वा व्रजेद् गच्छन् 'मेर्वादिविषयसन्निधौ' इति गम्यते । किमनेन पृष्ठेन ? इति चेत् । उभयथाऽपि दोषः, तथाहि- भावमनसश्चिन्ताज्ञानपरिणामरूपत्वात , तस्य च जीवादव्यतिरिक्तत्वाजीव एव भावमनो भवति । जीवश्चेति चकारः 'तओ' इत्यस्याऽनन्तरं संबन्धनीयः। ततोऽयमर्थः- सकश्च स च भावमनोरूपो जीवो देहमात्रव्यापित्वाद् न देहाद् बहिनिःसरन् युक्तः, इह ये देहमात्रवृत्तयः, न तेषां बहिनिःसरणमुपपद्यते, यथा तद्गतरूपादीनाम् , देहमात्रवृत्तिश्च जीवः ॥ इति गाथार्थः ॥२१५॥ देहमात्रव्यापित्वस्याऽसिद्धिं मन्यमानस्य परस्य मतमाशङ्कमानः मूरिराह सव्वगउ त्ति च बुद्धी, कत्ताभावाइदोसओ तण्ण । सव्वा-सव्वग्गहणप्पसंगदोसाइओ वा वि ॥ २१६ ॥ अथ स्याद् बुद्धिः परस्य- सर्वगत आत्मा, न तु देहमात्रव्यापी, अमूर्तत्वात् , आकाशवदिति । अत्र गुरुराह- तदेतन्न । कुतः ?, इत्याह- भावप्रधानत्वानिर्देशस्य कर्तृत्वाभावादिदोषत इति- सर्वगतत्वे सत्यात्मनः कर्तृत्वादयो गोपाङ्गनादिप्रतीता अपि न, अनुग्रहो-पघाताभावात् लोचनमिव, तदितरथा । तोय-ज्वलनादिचिन्तनकाले बुग्येत द्वाभ्यामपि ॥ २४॥ २ द्रव्यं भावमनो वा बजेद् जीवश्च भवति भावमनः । देहव्यापित्वाद् न देहवहिस्ततो युक्तः ॥ २१५॥ ३ सर्वगत इति च बुद्धिः, कन्नभावादिदोषतस्तन्न । सर्वा-सर्वग्रहणप्रसङ्गदोषादितो वाऽपि ॥ २१ ॥ N॥१२८॥
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy