________________
विशेषा०
धर्मा न घटेरनिति भावः; तथाहि-न कर्ताऽऽत्मा, सर्वगतत्वात् , आकाशवत् । आदिशब्दादोक्ता, असंसारी, अज्ञः, न सुखी, न दुःखी आत्मा तत एव हेतोः, तद्वदेव, इत्याद्यपि द्रष्टव्यम् । आह परः- नन्वात्मनो निष्क्रियत्वात् कर्तृत्वाद्यभावः सांख्यानां न
बाधायै कल्पते; तथा च तैरुक्तम्-“अकर्ता निर्गुणो भोक्ताऽऽत्मा" इत्यादि । एतदप्ययुक्तम् , तस्य निष्क्रियत्वे प्रत्यक्षादिपमाणोपल॥१२९॥ ब्धभोक्तृत्वादिक्रियाविरोधप्रसङ्गात् । प्रकृतेरेव भोगादिकरणक्रिया, न पुरुषस्य, आदर्शप्रतिबिम्बोदयन्यायेनैव तत्र क्रियाणामिष्टत्वादिति
चेत् । एतदप्यसङ्गतम् , प्रकृतेरचेतनत्वात् “चैतन्यं पुरुषस्य स्वरूपम्" इति वचनात् । अचेतनस्य च भोगादिक्रियाऽयोगात् , अन्यथा घटादीनामपि तत्प्रसङ्गादिति । न केवलं कर्तृत्वाद्यभावतः सर्वगतत्वमात्मनो न युक्तम् , किन्तु सर्वा-ऽसर्वग्रहणप्रसङ्गतोऽपि च तदसङ्गतम् । इदमुक्तं भवति- आत्मनः समात्रिभुवनगतत्वे, प्राप्यकारित्वेनाऽभ्युपगतस्य तदव्यतिरिक्तस्य भावमनसोऽपि सर्वगतत्वात् सर्वार्थप्राप्तेः सर्वग्रहणप्रसङ्गः, तथा च सर्वस्य सर्वज्ञत्वमसक्तिः । अथोक्तन्यायेन प्राप्तानपि सर्वार्थानभिहितदोषभयाद् न गृह्णातीत्युच्यते । तर्हि सर्वार्थाग्रहणप्रसङ्गः- ग्राह्यत्वेनेष्टानप्यर्थान् मा ग्रहीद् भावमनः, प्राप्तत्वाविशेषात् , अग्राह्यत्वेनेष्टार्थवदिति भावः। अथ प्राप्तत्वाविशिष्टत्वेऽपि कांश्चिदर्थानेतद् गृह्णाति, कांश्चिद् नेत्युच्यते । तर्हि व्यक्तमीश्वरचेष्टितम् । न चैतद् युक्तिविचारे क्वचिदप्युपयुज्यत इति । आदिशब्दात् सर्वगतत्व आत्मनोऽन्यदपि दूषणमभ्यूह्यम् , तथाहि- यथाऽङ्गुष्ठादौ दहनदाहादिवेदनायां मस्तकादिष्वप्यसावनु| भूयते, तथा सर्वत्रापि तत्प्रसङ्गः, न च भवति, तथाऽनुभवाभावात् , अननुभूयमानाया अपि भावाभ्युपगमेऽतिप्रसङ्गात् । किञ्च,
सर्वगतत्वे पुरुषस्य नानादेशगतस्रक्-चन्दना-अनादिसंस्पर्शेऽनवरतसुखासिकाप्रसङ्गः, वह्नि-शस्त्र-जलादिसंबन्धे तु निरन्तरदाह-पाटन-क्लेद
नादिप्रसङ्गश्च । यत्रैव शरीरं तत्रैव सर्वमिदं भवति, नाऽन्यत्रेति चेत् । कुतः, इति वक्तव्यम् । आज्ञामात्रादेवेति चेत् । न, तस्येFoहाविषयत्वात् । सहकारिभावेन तस्य तदपेक्षणीयमिति चेत् । न, नित्यस्य सहकार्यपेक्षाऽयोगात् । तथाहि- अपेक्ष्यमाणेन सहकारिणा
तस्य कश्चिद् विशेषः क्रियते, नवा ? । यदि क्रियते, स किमर्थान्तरभूतः, अनर्थान्तरभूतो वा । यद्याद्यः पक्षः, तर्हि तस्य न किश्चित् कृतं स्यात् । अथापरः, तर्हि तत्करणे तदव्यतिरिक्तस्याऽऽत्मनोऽपि करणप्रसङ्गात् , कृतस्य चाऽनित्यत्वात् तस्याऽनित्यत्वप्रसङ्गः । अथ मा भूदेष दोप इति 'न क्रियते' इत्यभ्युपगम्यते। हन्त ! न तर्हि स तस्य सहकारी, विशेषाकरणात् । अथ विशेषमकुर्वन्नपि सहकारीष्यते । तर्हि सकलत्रैलोक्यस्यापि सहकारिताप्राप्तिः, विशेषाकरणस्य तुल्यत्वात् , इति' व्यर्था शरीरमात्रापेक्षा, इत्याद्यत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् । तस्माच्छरीरमात्रवृत्तिरेवाऽऽत्मा, न सर्वगत इति । अतस्तदव्यतिरिक्तस्य भावमनसो न
१ ग. “ति पृथा श'।
रामपाल
॥१२९॥
१७
Jan Education Inter
For Personal and Private Use Only
www.jaineltrary.ary