SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ बृहद्वात्तिः। विशेषा० ॥१३०॥ शरीराद् बहिनिःसरणमुपपद्यत इति स्थितम् ।। इति गाथार्थः ॥ २१६ ॥ अथ द्रव्यमनो विषयदेशं व्रजतीति ब्रूयात् , तत्राऽप्याहदेव्यमणो विण्णाया न होइ गंतुं च किं तओ कुणउ ? । अह करणभावओ तस्स, तेण जीवो वियाणेज्जा॥२१७॥ काययोगसहायजीवगृहीत-चिन्ताप्रवर्तकमनोवर्गणान्तःपातिद्रव्यसमूहात्मकं द्रव्यमनः स्वयं विज्ञातृ न भवत्येव, अचेतनत्वात्, उपलशकलवत् , इत्यतो गत्वाऽपि मेर्वादिविषयदेशं किं तद् वराकं करोतु, तत्र गतादपि तस्मादर्थावगमाभावादिति भावः ।। पराभिप्रायमाशङ्कते- 'अह करणेत्यादि' अब मन्यसे- यद्यपि द्रव्यमनःस्वयं न किश्चिज्जानाति, तथापि करणभावः करणत्वं तस्य द्रव्यमनसः प्रदीपादेरिव वस्तुनि प्रकाशयितव्ये समस्ति । ततो जीवः कर्ता तेन द्रव्यमनसा करणभूतेन विजानीयादवबुध्येत मेर्वादिकं वस्त्विति । अत्र प्रयोगः- बहिर्निर्गतेन द्रव्यमनसा प्राप्य विषयं जानाति जीवः, करणत्वात् , प्रदीप-मणि-चन्द्र सूर्यादिप्रभयेव ॥इति गाथार्थः ॥२१७॥ _ अत्रोत्तरमाह केरणतणओ तणुसंठिएण जाणिज्ज फरिसणेणं व । एत्तो च्चिय हेऊओ न नीइ बाहिं फरिसणं व ॥२१८॥ को वै न मन्यते, यदुत- अर्थपरिच्छेदे कर्तव्ये आत्मनो द्रव्यमनः करणम् ? । किन्तु करणं द्विधा भवति-शरीरगतमन्तःकरणम् , तद्वहिभूतं वाह्यकरणं च । तत्रेदं द्रव्यमनोऽन्तःकरणमेवात्मनः । ततश्च 'करणत्तणउ त्ति' सूत्रस्य सूचामात्रत्वात् , एकदेशेन समुदायस्य गम्यमानत्वाच्चान्तःकरणत्वादित्यर्थः, तनुसंस्थितेन शरीराद् बहिरनिर्गतेन जीवस्तेन जानीयाद् मेर्वादिविषयम् , स्पर्शनेन्द्रियेणेव कमलनालादिस्पर्शम् । प्रयोगः- यदन्तःकरनं तेन शरीरस्थेनैव विषय जीवो गृह्णाति, यथा स्पर्शनेन, अन्तःकरणं च द्रव्यमनः । मदीप-मणि-चन्द्र-सूर्यप्रभादिकं तु बाह्यकरणमात्मन इति साधनविकलः परोक्तदृष्टान्तः । आह-ननु शरीरस्थमपि तत् पद्मनालतन्तुन्यायेन बहिर्द्रव्यमनः किं न निःसरति ?, इत्याह- 'एत्तो चियेत्यादि' इत एवान्तःकरणत्वलक्षणादेतोबहिर्न निर्गच्छति द्रव्यमनः, स्पर्शनवत् । प्रयोगः- यदन्तःकरणं तच्छरीराद् बहिर्न निर्गच्छति, यथा स्पर्शनम् ॥ इति गाथार्थः ॥ २१८ ॥ तदेवं भावमनसो द्रव्यमनसश्च बहिश्चारिताद्यभावादमाप्यकार्येव मन इत्युक्तम् । सांप्रत 'नाणुग्गहो-बघायाभावाओ लोयणं व' १ द्रव्यमनो विज्ञातृ न भवति गत्वा च किं ततः करोतु । अथ करणभावतस्तस्य, तेन जीयो विजानीयात् ॥ २१७ ॥ २ करणत्वतस्तनुसंस्थितन जानीयात् स्पर्शनेनेव । इत एव हेतो निर्गच्छति बहिः स्पर्शनमिव ॥ २१ ॥ ३ गाथा २१४ । PRESEARCH ॥१३०॥ For som e Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy