SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वत्तिः । ॥१३॥ इत्यादिना मनसोप्राप्यकारितायाम् 'अनुग्रहो-पघाताभावात्' इति यः पूर्व हेतुरुक्तः, तस्य परोऽसिद्धिं समुद्भावयन्नाह नज्जइ उवधाओ से दोबल्लो-रक्खयाइलिंगेहिं । जमणुग्गहो य हरिसाइएहिं तो सो उभयधम्मो ॥२१९॥ _ इह मृत-नष्टादिकं वस्तु चिन्तयतः, अत्यात-रौद्रध्यानप्रवृत्तस्य च 'से' तस्य मनस उपघातो ज्ञायतेऽनुमीयते । कैः ?, इत्याहदौर्बल्यो-रक्षतादिलिङ्गः-दौर्बल्यं देहापचयरूपम् , उरःक्षतमुरोविघातः, हृदयबाधेति यावत् : आदिशब्दाद् वातप्रकोप-वैकल्यादिपरिग्रहः। अनुग्रहश्च- यद्यस्मात् तस्येष्टसंगम-विभवलाभादिकं वस्तु चिन्तयतो हादिभिरनुमीयते । तत्र वदनविकाश-रोमाञ्चोद्गमादिचिह्नंगम्यो | मानसः प्रीतिविशेषो हर्षः, आदिशब्दाद् देहोपचयो-त्साहादिपरिग्रहः । तत् तस्मात्कारणात् तद् मन उपघाता-नुग्रहलक्षणोभयधर्मकमेव । अयमत्र भावार्थः- यः शोकाद्यतिशयाद् देहीपचयरूपः, आादिध्यानातिशयाद् हृद्रोगादिस्वरूपश्चोपघातः; यश्च पुत्रजन्माद्यभीष्टप्राप्तिचिन्तासमुद्भूतहर्षादिरनुग्रहः, स जीवस्य भवन्नपि चिन्त्यमानविषयाद् मनसः किल परो मन्यते, तस्य जीवात् कथञ्चिदव्यतिरिक्तत्वात् । ततश्चैवं मनसोऽनुग्रहो-पघातयुक्तत्वात् तच्छून्यत्वलक्षणो हेतुरसिद्धः ॥ इति गाथार्थः ॥ २१९ ॥ ___ तदेतत् सर्व परस्याऽसंबद्धभापितमेवेति दर्शय नाह जेइ दव्वमणोऽतिबली पीलिज्जा हिदिनिरुद्धवाउ व्व । तयणुग्गहेण हरिसादउ व्व नेयस्स किं तत्थी ॥२२०॥ ___ यदि नाम द्रव्यमनो मनस्त्वपरिणतानिष्टपुद्गलसमूहरूपमतिशयबलिष्ठमिति कृत्वा शोकादिसमुद्भूतपीडया जीवं कर्मतापन्नं देहदौर्बल्याद्यापादनेन पीडयेत् , हृनिरुद्धवायुवत्- हृदयदेशाश्रितनिविडमरुद्ग्रन्धिवदित्यर्थः । यदि च तस्यैव द्रव्यमनसो मनस्त्वपरिणतेष्टपुद्गलसंघातस्वरूपस्याऽनुग्रहेण जीवस्य हर्षादयो भवेयुः, तर्हि ज्ञेयस्य चिन्तनीयमेवादेमनसोऽनुग्रहो-पघातकरणे किमायातम् । इदमत्र हृदयम्- मनस्त्वपरिणतानिष्टपुद्गलनिचयरूपं द्रव्यमनोऽनिष्टचिन्ताप्रवर्तनेन जीवस्य देहदौर्बल्याद्यापच्या हृनिरुद्धवायुवदुपघातं जनयति, तदेव च शुभपुद्गलपिण्डरूपं तस्याऽनुकूलचिन्ताजनकत्वेन हर्षाद्याभिनिच्या भेषजवदनुग्रहं विधत्त इति । अतो जीवस्यैतावनुग्रहो-पघातौ द्रव्यमनः करोति, न तु मन्यमानादिकं ज्ञेयं मनसः किमप्युपकल्पयति । अतो द्रव्यमनसः सकाशादात्मन एवानुग्रहो-पघातसद्भावात् , मनसस्तु ज्ञेयात् तद्गन्धस्याऽप्यभावाद् मस्तकाघातविह्वलीभूतेनेवाऽसंबद्धभाषिणा परेण हेतोरसिद्धिद्भाविता ।। इति गाथार्थः ।। २२०॥ जायते उपघातस्तस्य दौर्बल्यो-रःक्षतादिलिङ्गः । यदनुग्रहच हर्षादिभिस्ततः स उभयधर्मा ॥ २१९ ॥ २ बदि द्रव्यमनोऽतिवालि पीडयेद् हनिरुदवायुरिव । तदनुग्रहेण हदिय इन शेषस्य किं तत्र ! ॥ २२० ॥ APA|१३ For Peso Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy