SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । विशेषा ॥१३२॥ आह-नवलौकिकमिदं, यद्-द्रव्यमनसा जीवस्य देहोपचय-दौर्बल्यादिरूपावनुग्रहो-पघातौ क्रियेते, तथापतीतेरेवाभावात, इत्याशङ्कयाह ईट्ठा-णिद्वाहारब्भवहारे होन्ति पुट्ठि-हाणीओ । जह, तह मणसो ताओ पोग्गलगुणउ त्ति को दोसो? ॥२२१॥ ननु किमिहाऽलौकिकम् ? , यतो भवतो लोकस्य च सबालगोपालस्य तावत्यतीतमिदं यदुत- इष्टो मनोभिरुचितो य आहारस्तस्याऽभ्यवहारे जन्तूनां शरीरस्य पुष्टिर्भवति , यस्त्वनिष्टोऽनभिमत आहारस्तस्याऽभ्यवहारे हानिर्भवतीति । ततश्च 'जह त्ति' यथा इष्टा-ऽनिष्टाहाराभ्यवहारे तत्पुद्गलानुभावात् पुष्टि-हानी भवतः, 'तह त्ति' तथा यदि द्रव्यमनोलक्षणात् मनसोऽपि सकाशात् 'ताउत्ति' ते पुष्टि-हानी पुद्गलगुणतः पुद्गलानुभावाद् भवतः, तर्हि को दोषः । न कश्चिदित्यर्थः । यथाऽऽहार इष्टा-ऽनिष्टपुद्गलमयत्वात् तदनुभावाजन्तुशररािणां पुष्टि-हानी जनयति, तथा द्रव्यमनोऽपि तन्मयत्वाद् यदि तेषां ते निवर्तयति , तदा किं भूयते, येन पुद्गलमयत्वे समानेऽपि भवतोत्रैवाऽक्षमा? इति भावः। तथा चोक्तम्- "चिन्तया वत्स! ते जातं शरीरकमिदं कृशम्" इति । चिन्तैव तर्हि कार्याधुपघातादिजनिकेति चेत् । न, तस्या अपि द्रव्यमनःमभवत्वात् , अन्यथा चिन्ताया ज्ञानरूपत्वात् , ज्ञानस्य चाऽमूर्तत्वात्, अमूर्तस्य च नभस इवोपघातादिहेतुत्वायोगात्, 'जमणुग्गहो-वघाया जीवाणं पोग्गलेहिंतो' इति वक्ष्यमाणत्वाच ।। इति गाथार्थः।२२१॥ अथोपसंहारगर्भ प्रस्तुतार्थविषये स्वाभिप्रायपरमार्थं दर्शयन्नाह नीउं आगसिउं वा न नेयमालंबइ त्ति नियमोऽयं । तण्णेयकया जेऽणुग्गहो-वघाया य ते नत्थि ॥२२२॥ इह न शरीराद् 'निर्गन्तुं' (निर्गत्य) द्रव्यमनो मेर्वादिकं ज्ञेयमर्थमालम्बते गृह्णाति, नापि तच्छरीरस्थमेव 'आगसिउँ ति' 'आक्रष्टुं' (आकृष्य) हठात् समाकृष्याऽऽत्मनः समीपमानीय ज्ञेयमालम्बत इति, अयं नियमोऽस्माभिर्भुजमुत्क्षिप्य विधीयते- प्राप्यकारीदं न भवतीति नियम्यत इति तात्पर्यम् । 'तण्णेयकया जेऽणुग्गहो-वघाय चि' यौ च तज्ज्ञेयकृतौ-तच तज्ज्ञेयं च तज्ज्ञेयं तत्कृतौ, मनसोऽनुग्रहो-पघातौ परिष्येते, तौ तस्य न स्त एवेति च नियम्यते ॥ इति गाथार्थः ॥ २२२ ॥ किं पुनर्न नियम्यते ?, इत्याह H इष्टा-उनिष्टाहाराभ्यवहारे भवतः पुष्टि-हानी । यथा, तथा मनसस्ते पुद्गलगुणत इति को दोषः ॥ २२१ ॥२ पुष्टि-हानी। ३ गाथा २२३ । निर्गत्याकृष्य वा न शेयमालम्बत इति नियमोऽयम् । तशेयकृती यावनुग्रहो रघाती च ती न स्तः ॥ २२२ ॥ काकडहाकारका ॥१३२॥ TAठानना For Personal and ev e nty
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy