SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ RRIORSHA विशेषा. वृहदत्तिः । ॥१३३॥ सो पुण सयमुवघायण-मणुग्गहं वा करेज को दोसो ? । जमणुग्गहो-वघाया जीवाणं पोग्गलहितो ॥२२३॥ 'से' इति प्राकृतत्वात् पुंलिङ्गनिर्देशः, एवं पूर्वमुत्तरत्रापि च यथासंभवं द्रष्टव्यम् । तद् द्रव्यमनः पुनः स्वयमात्मना शुभाऽशुभकर्मवशत इष्टा-ऽनिष्टपुद्गलसंघातघटितत्वादनुग्रहो-पघातौ मन्तुः कुर्यात् , को दोषः ?- न वयं तत्र निषेद्धारः, ज्ञेयकृतयोरेव तस्य तयोरस्माभिनिषिध्यमानत्वादिति भावः । जीवस्याऽपि तौ द्रव्यमनःकृतौ किमिति न निषिध्येते ?, इत्याह- 'जमगुग्गहो इत्यादि' यद्यस्मात्कारणादनुग्रहो-पघातौ जीवानां पुद्गलेभ्य इति युक्तमेव, इष्टा-ऽनिष्टशब्द-रूप-रस-गन्ध-स्पर्शापभोगादिषु तथादर्शनेनाऽस्याऽर्थस्य निषेदुमशक्यत्वादित्यर्थः ॥ आह- ननु शब्दादय इष्टा-ऽनिष्टपुद्गलात्मका इति प्रत्यक्षादिप्रमाणसिद्धत्वात् प्रतीमः, द्रव्यमनस्तु यदिदं किमपि भवद्भिरुख़ुष्यते, तदिष्टा-ऽनिष्टपुद्गलमयमस्तीति कथं श्रद्दध्मः' इति । अत्रोच्यते- योगिनस्तावदिदं प्रत्यक्षत एव पश्यन्ति; अर्वाग्दर्शिनस्त्वनुमानात् , तथाहि- यदन्तरेण यद् नोपपद्यते तदर्शनात् तदस्तीति प्रतिपत्तव्यम् , यथा स्फोटदर्शनाद् दहनस्य दाहिका शक्तिः, नोपपद्यते चेष्टा-निष्टपुद्गलसंघातात्मकद्रव्यमनोव्यतिरेकेण जन्तूनामिष्टा-निष्टवस्तुचिन्तने समुपलब्धौ वदनप्रसन्नता-देहदौर्बल्याद्यनुग्रहो-पघातौ, ततस्तदन्यथानुपपत्तरस्ति यथोक्तरूपं द्रव्यमनः । चिन्तनीयवस्तुकृतावेतौ भविष्यत इति चेत् । न, जल-ज्वलनौदनादिचिन्तने क्लेद-दाह-बुभुक्षोपशमादिप्रसङ्गादिति । " चिन्तया वत्स ! ते जातं शरीरकमिदं कृशम्" इत्यादिलोकोक्तश्चिन्ताज्ञानकृतौ ताविति चेत् । तदप्ययुक्तम् , तस्याऽमृर्तत्वात् , अमूर्तस्य च कर्तृत्वायोगात , आकाशवत् , इत्युक्तत्वात् , “चिन्तया वत्स!" इत्यादिलोकोक्तेश्च कार्ये कारणशक्त्यध्यारोपेणौपचारिकत्वात् । खेदादेस्तदुद्भूतिरिति चेत् । कोऽयं नाम खेदादिः । किं तान्येव मनोद्रव्याणि, चिन्तादिज्ञानं वा । आद्यपक्षे, सिद्धसाध्यता । द्वितीयपक्षस्तु विहितोत्तर एव । न च निर्हेतुकावेतौ, सर्वदा भवना-ऽभवनप्रसङ्गात् , " नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभवः " ॥१॥ इति । न च जीवादिक एवाऽन्यः कोऽपि तयोर्हेतुः, तस्य सदावस्थितत्वेन तत एव सर्वदा भवना-ऽभवनप्रसङ्गात् । एवमन्यदपि सुधिया स्वबुद्ध्या समाधानमिह वाच्यम् , इत्यलमतिविस्तरेण । तस्मादुक्तयुक्तिसिद्धं पुद्गलमयं द्रव्यमनो मन्तुः स्वयं कुर्यादनुग्रहो-पघातौ, ज्ञेयकृतौ तु तौ मनसो न स्त एव, इति न तत्याप्यकारि ।। इति गाथार्थः ।। २२३ ॥ आह-ननु जाग्रदवस्थायां मा भूद् मनसो विषयमाप्तिः, स्वापावस्थायां तु भवत्वसौ, अनुभवसिद्धत्वात्, तथाहि- 'अमुत्र मेरुशिखरादिगतजिनायतनादौ मदीयं मनो गतम् ' इति सुप्तैः स्वमेऽनुभूयत एव, तथा च "गतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे , तत्पुनः स्वयमुपघाता-नुग्रही वा कुर्यात् को दोषः । यदनुग्रहो-पघातौ जीवानां पुद्गलेभ्यः ॥ २२३ ॥ २ चिन्ताज्ञानस्य । ३ गाथा २१३ । १३३॥ For Personal and v e ry
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy