________________
वा' इति मया प्रागेवोक्तम् , इत्याशङ्कय स्वप्नेऽपि मनसः प्राप्यकारितामपाकर्तुमाहविशेषाव सिंमिणो न तहारूवो वभिचाराओ अलायचकं व । वभिचारो य सदसणमुवघाया-णुग्गहाभावा ॥२२४॥ ॥१३४॥
इह 'मदीयं मनोऽपुत्र गतम्' इत्यादिरूपो यः सुप्तैरुपलभ्यते स्वमः, स यथोपलभ्यते न तथारूप एव, स्वमोपलब्धमोदकस्तथाविधपरमाचार्यैरिव परैर्न सत्य एव मन्तव्य इत्यर्थः । कुतः ?, इत्याह- व्यभिचारात्- अन्यथात्वदर्शनात् । किंवद्- यथा न सत्यम् ?, इत्याह- अलातचक्रमिव- अलातमुल्मुकं तवृत्ताकारतया आशु भ्रम्यमाणं भ्रान्तिवशादचक्रमपि चक्रतया प्रतिभासमानं यथा न सत्यम् , अचक्ररूपताया एव तत्राऽवितथत्वात् , भ्रमणोपरमे स्वभावस्थस्य तथैव दर्शनात् ; एवं स्वामोऽपि न सत्यः, तदुपलब्धस्य मनोमेरुगमनादिकस्याऽर्थस्याऽसत्यत्वात् । तदसत्यत्वं च प्रबुद्धस्य स्वप्नोपरमे तदभावात् । तदभावश्च तदवस्थायां देहस्थस्यैव मनसोऽनुभूयमानत्वादिति ॥ आह- ननु स्वरमावस्थायां मेर्वादौ गत्वा जाग्रदवस्थायां निवृत्तं तद् भविष्यति, इति 'व्यभिचारात्' इत्यसिद्धो हेतुः, इत्याशङ्कयाह- 'वभिचारो येत्यादि' यो मया व्यभिचारो हेतुत्वेनोक्तः, स चेत्थं सिद्धः । कथम् ?, इत्याह- 'सदसणमिति' विभक्तिव्यत्ययात् स्वदर्शनादित्यर्थः, स्वस्थाऽऽत्मनो मे दिस्थितजिनगृहादिगतस्य दर्शनं स्वदर्शनं तस्मादिति । एतदुक्तं भवति- यथा कदाचिदात्मीयं मनः स्वमे मेादौ गतं कश्चित् पश्यति, तथा कोऽपि शरीरमात्मानमपि नन्दनतरुकुसुमावचयादि कुर्वन्तं तद्गतं पश्यति, न च तत् तथैव, इहस्थितैः सुप्तस्य तस्याऽत्रैव दर्शनात् , द्वयोश्चात्मनोरसंभवात् , कुसुमपरिमलाद्यध्वजनितपरिश्रमायनुग्रहो-पघाताभावाच ॥ इति गाथार्थः ॥ २२४ ॥
एतदेव भावयन्नाह
इह पासुत्तो पेच्छइ सदेहमन्नत्थ, न य तओ तत्थ । न य तग्गयोवघाया-णुग्गहरूवं विबुद्धस्स ॥२२५॥
इह जगति प्रसुप्तः कश्चित् स्वदेहमन्यत्र नन्दनवनादौ गतं स्वप्ने पश्यति । न च तकोऽसौ देहस्तत्र नन्दनवनादावुपपद्यते, इहस्थितैरन्यैस्तस्याऽत्रैवोपलम्भात , इत्याद्यनन्तरोक्तयुक्तेः। न च विबुद्धस्य सतस्तद्गतयोरन्यत्र गमनगतयोरन्यत्र गमनविषययोरनुग्रहोपघातयो रूपं कुसुमपरिमल मार्गपरिश्रमादिकं स्वरूपमुपलभ्यते । तस्मात् स्वापावस्थायामपि नाऽन्यत्र मनसो गमनम् , देहगमनदर्शनेन व्यभिचारात् ।। इति गाथार्थः ।। २२५ ॥
१ स्वप्नो न तथारूपो व्यभिचारादलातचकमिव । व्यभिचारश्च स्वदर्शनादुपघाता-ऽनमहाभावात् ॥२२४॥ २५. छ, ज. 'स्वाद'। ३ इह प्रसुप्तः प्रेक्षते वहमन्यत्र न च सकस्तत्र । न च तगतोपघाता-नुमहरूपं विबुदस्य ।। २२५ ॥
||१३४॥
Edit
For Personal and Private Use Only