________________
बृहदत्तिः ।
विशेषा. ॥१३५॥
अत्र वियुद्धस्य सतस्तद्गतानुग्रहो-पघातानुपलम्भादित्यस्य हेतोरसिद्धतोद्भावनार्थं परः प्राह
दीसंति कासइ फुडं हरिस-विसादादयो विबुद्धस्स । सिमिणाणुभूयसुह-दुक्ख-रागदोसाइलिंगाइं ॥२२६॥ इह कस्यचित् पुरुषस्य स्वनोपलम्भानन्तरं विबुद्धस्य सतः स्फुट व्यक्तं दृश्यन्ते हर्ष-विषादादयः, आदिशब्दादुन्माद-माध्यस्थ्यादिपरिग्रहः । कथंभूता ये हर्ष-विषादादयः? इत्याह-'सिमिणेत्यादि' स्वमे जिनस्नात्रदर्शनादौ यदनुभूतं सुखं, समीहितार्थाऽलाभादौ यदनुभूतं दुःखं, तयोर्विषये यथासंख्यं यौ राग-द्वेषौ तयोलिङ्गानि चिह्नानि- हर्षः स्वप्नानुभूतसुखं रागस्य लिङ्ग, विषादस्तु तदनुभूतदुःखद्वेषस्य लिङ्गमिति भावः । तत्र
"स्वमे दृष्टो मयाद्य त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे द्वात्रिंशद्भिः सुरेन्द्ररहमहमिकया स्नाप्यमानः सुमेरौ ।
तस्माद् मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टो द्रष्टव्यो, यो महायान् परिहरति भयं देहिनां संस्मृतोऽपि" ॥१॥ इत्यादिखमानुभूतसुखरागलिङ्गं हर्षः, तथा-- "प्राकारत्रयतुगतारणपणिप्रेमभाव्याहता नष्टाः कापि रवेः करा द्रुततरं यस्यां प्रचण्डा अपि ।
तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थायिकामेदिनी हा ! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता" ॥१॥ . इत्यादिकः स्वप्मानुभूतदुःखद्वेषलिङ्ग विषादः, अत्यन्तकामोद्रेकादिलिङ्गमुन्मादः, मुनेस्तु माध्यस्थ्यम् । इति “ विबुद्धस्याऽनुग्रहोपघातानुपलम्भात्" इत्यसिद्धो हेतुः ॥ इति गाथार्थः ।।२२६॥
अत्रोत्तरमाहने सिमिणविण्णाणाओ हरिस-विसासादयो विरुज्झति। किरियाफलं तु तित्ती-मद-बह-बंधादओ नत्थि ॥२२७||
खने सुखानुभवादिविषय विज्ञानं स्वमविज्ञानं तस्मादुत्पद्यमाना हर्ष विषादादयो न विरुध्यन्ते- न तान् वयं निवारयामः, जाग्रदवस्थाविज्ञानहादिवत् , तथाहि- दृश्यन्ते जाग्रदवस्थायां कचित् स्वमुत्पेक्षितसुखानुभवादिज्ञानाद् हृष्यन्तः, द्विपन्तो वा । ततश्च दृष्टस्य निषेदुमशक्यत्वात् खमविज्ञानादपि नैतनिषेधं ब्रूमः। तर्हि किमुच्यते भवद्भिः?, इत्याह-'किरियेत्यादि' क्रिया भोजनादिका तस्याः
परश्यन्ते कस्यचित् स्फुट हर्ष-विषादादयो दिबुद्धस्य । स्वप्नानुभूतसुख-दुःख-राग-दोषादिलिङ्गानि ॥ २२६ ॥ २ प.छ.क. 'यानपह' । ३ ग. ज. 'भाभ्याह' ५ न स्वमविज्ञानाद् हर्ष-विषादात्यो विरुध्यन्ते । क्रियाफलं तु तृप्ति-मद-वध-बन्धादयो न सन्ति ॥२२७॥
॥१३५॥
(HODI
For Personal and
Use Only