________________
विशे०
॥१०९॥
सररररर
पारतन्त्र्यमुक्तम्- इत्थं तीर्थकर-गणधरा ब्रुवत इति ।।
____ अन्ये त्वेवं पठन्ति- “ अत्थाणं उग्गहणम्मि उग्गहो" इत्यादि, तत्रार्थानामवग्रहणे सत्यवग्रहो नाम मतिभेद इत्येवं ब्रुवते, बृहद्वत्तिः । एवमीहादिष्वपि योज्यम् ; भावार्थस्तु पूर्ववदेव । अथवा प्राकृतशैल्याऽर्थवशाद् विभक्तिपरिणाम इति सप्तमी द्वितीयार्थे द्रष्टव्या ॥ इति गाथार्थः ॥ १८॥
अथैतदेवाऽवग्रहादिस्वरूपं भाष्यकारो विवृण्वन्नाह
सोमण्णत्थावग्गहणमुग्गहो भेयमग्गणमहेहा । तस्सावगमोऽवाओ अविच्चुई धारणा तस्स ॥ १८ ॥
अन्तर्भूताऽशेषविशेषस्य केनापि रूपेणाऽनिर्देश्यस्य सामान्यस्याऽर्थस्यैकसामयिकमवग्रहणं सामान्यार्थावग्रहणम्, अथवा सामान्येन सामान्यरूपेणार्थस्याऽवग्रहणं सामान्यार्थावग्रहणमवग्रहो बेदितव्यः । अथाऽनन्तरमीहा प्रवर्तते। कथम्भूतेयम् ? इत्याह-भेदमार्गणम्-भेदा वस्तुनो धर्मास्तेषां मार्गणमन्वेषणं विचारणं प्रायः काकानलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिरःकण्डूयनादयः पुरुषधर्मा इत्येवं वस्तुधर्मविचारणमीहेत्यर्थः । तस्यैवेहयेहितस्य वस्तुनस्तदनन्तरमवगमनमवगमः स्थाणुरेवाऽयमित्यादिरूपो निश्चयोऽवायोऽपायो वेति । तस्यैव निश्चितस्य वस्तुनोविच्युति-स्मृति-वासनारूपं धरणं धारणा; मूत्रेऽविच्युतेरुपलक्षणत्वात् ॥ इति गाथार्थः ॥१८०॥
अत्र चाऽवग्रहादारभ्य परैः सह विप्रतिपत्तयः सन्ति, इत्यवग्रहविषयां तां तावद् निराकर्तुमाह
सामण्णविसेसस्स वि केई उग्गहणमुग्गहं बेंति । जं मइरिदं तयं तिच, तं नो बहुदोसभावाओ ॥ १८१॥ सामान्य चासौ विशेषश्च सामान्यविशेषस्तस्याऽपि, न केवलं सामान्यार्थस्य, इत्यपिशब्दः, अवग्रहणमवच्छेदन केचन व्याख्यातारोऽवग्रहं ब्रुवते । किंकारणम् ? इत्याह- 'जं मइरिदं तयं ति चेति' यद् यस्मात् कारणादमुतःशब्दादिलक्षणसामान्यविशेषग्राहकाऽवग्रहादनन्तरं | इदं, तदिति च, इति विमर्शलक्षणा मतिरनुधावति- ईहा प्रवर्तत इत्यर्थः, यदनन्तरं चेहादिप्रवृत्तिः सोऽवग्रह एव, यथाव्यञ्जनावग्रहानन्तरभावी अव्यक्तानिर्देश्यसामान्यमात्रग्राही अवग्रहः, प्रवर्तते च शब्दादिसामान्यविशेषग्राहकाऽवग्रहानन्तरमीहादिः, तस्मादवग्रह एवाऽयम् । तथाहि-दूरात् शङ्खादिसंबन्धिनि शब्दे सामान्यविशेषात्मके रूपादिभ्यो भिन्ने गृहीते प्रवर्तत एवायं विमर्श:-किमयं शाङ्कः, म
॥१०९॥ सामान्यार्थावग्रहणमवमहो भेदमार्गणमधेहा । तस्यावगमोऽपायोऽविच्युतिधारणा तस्य ॥ १८ ॥ २ सामन्यविशेषस्याऽपि कोचिदवग्रहणमवग्रहं युवते । यद् मतिरिदं तदिति च, तद् नो बहुदोषभावात् ॥ १८॥ ३ क. 'भिन्नेऽवगृ' ।
PERSOSRCS
For Personal and ev
e
nty