________________
विशे०
॥१०८॥
Jain Education Internationa
निश्रिता उच्यन्ते । औत्पत्तिक्यादिषु स्वीहायभिलापस्य तथाविधकर्मक्षयोपशमजत्वात् परोपदेशायन्तरेणाऽप्युपपत्तेरिति भावः ।। इति गाथार्थः ॥ १७७ ॥
तत्र श्रुतनिश्रितानवग्रहादींस्तावद् निर्युक्तिकारः प्राह—
उग्गहोईहवाओ य धारणा एव होंति चत्तारि । आभिणिबोहियनाणस्स भयवत्थू समासेणं ॥ १७८ ॥ रूप-रसादिभेदैरनिर्देश्यस्याऽव्यक्तस्वरूपस्य सामान्यार्थस्याऽयग्रहणं परिच्छेदनमवग्रहः । तेनाऽवगृहीतस्यार्थस्य भेदविचारणं वक्ष्यमाणगत्या विशेषान्वेषणमहा । तयेहितस्यैवाऽर्थस्य व्यवसायस्तद्विशेषनिश्चयोऽपायः । चशब्दोऽवग्रहादीनां पृथक् पृथक स्वातन्त्र्यप्रदर्शनार्थः, तेनैतदुक्तं भवति - अवग्रहादेरीहादयः पर्याया न भवन्ति पृथग्भेदवाचकत्वादिति । निश्चितस्यैव वस्तुनोऽविच्युत्यादिरूपेण धरणं धारणा । एवकारः क्रमद्योतनपरः, अवग्रहादीनामुपन्यासस्याऽयमेव क्रमो नान्यः, अवगृहीतस्यैवेहनात्, ईहितस्यैव निश्वयात्, निश्चितस्यैव धारणादिति । एवमेतान्याभिनिवोधिकज्ञानस्य चत्वार्येव भेदवस्तूनि समासेन संक्षेपेण भवन्ति, विस्तरतस्त्वष्टाविंशत्यादिभेदभिन्नमिदं वक्ष्यत इति भावः । तत्र भिद्यन्ते परस्परमिति भेदा विशेषास्त एव वस्तूनि भेदवस्तूनीति समासः । इति गाथार्थः ॥ १७८ ॥
अथ नियुक्तिकार एवावग्रहादीन् व्याख्यानयन्नाह -
अत्थाणं उग्गहणं अवग्गहं तह वियालणं ईहं । ववसायं च अवायं धरणं पुण धारणं बेंति ॥ १७९ ॥
अर्थानां रूपादीनां प्रथमं दर्शनानन्तरमेवाऽवग्रहणमवग्रहं ब्रुवत इति संबन्धः । तथा विचारणं पर्यालोचनं 'अर्थानाम्' इति वर्तते, ईहनमीहा तां ब्रुवते इदमुक्तं भवति- अवग्रहादुत्तीर्णोऽपायात् पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागसंमुखश्च प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिरःकण्डूयनादयः पुरुषधर्मा इति मतिविशेष ईहेति । विशिष्टोऽवसायो व्यवसायो निश्चयस्तं व्यवसायम्, 'अर्थानाम्' इतीहापि वर्तते, अवायमपायं वा ब्रुवतेः एतदुक्तं भवति - स्थाणुरेवाऽयमित्यवधारणात्मकः प्रत्ययोऽवायः, अपायो वेति; चशब्द एवकारार्थः, व्यवसायमेवाश्वायम्, अपायं वा ब्रुवत इत्यर्थः । धृतिर्धरणम्, 'अर्थानाम्' इति वर्तते, अपायेन विनिश्चितस्यैव वस्तुनोऽविच्युति - स्मृति-वासनारूपं धरणमेव धारणां ब्रुवत इत्यर्थः । पुनः शब्दस्याऽवधारणार्थत्वाद् ब्रुवत इत्यनेन शास्त्रस्य
१ अवग्रह ईहाऽपायश्च धारणैव भवन्ति चत्वारि । आभिनियोधिकज्ञानस्य भेदवस्तूनि समासेन ॥ १७८ ॥ २ अधीनामग्रहणमवग्रहं तथा विचारणमीहाम् । व्यवसायं चाऽपायं धरणं पुनर्धारण घुवते ॥ १७९ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१०८॥
www.jainelibrary.org