SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ काका EA तथा च सत्येषा परमार्थतो मतेः कारणमेव न भवति, अतः कारणद्वारेणापि न परप्रत्यायकं मतिज्ञानम् , श्रुतं तु तवारेण पराविशे० बबोधकम् । इति युक्तो मूके-तरभेदाद् मति-श्रुतयोर्भेदः ।। इति गाथार्थः ॥ १७५ ॥ बृहद्वृत्तिः । ॥मति-श्रुतयोर्भेदचिन्ताधिकारः समाप्तः॥ ॥१०७॥ ____ तदेवं स्वामि-काल-कारणादिभिरभेदेऽपि लक्षण-भेद-हेतुफलभावादिभिर्मति-श्रुतयोविस्तरतो भेदमभिधायोपसंहरबाह मेइ-सुयनाणविसेसो भणिओ तल्लक्खणाइभेएणं । पुव्वं आभिणिबोहियमुद्दिटुं तं परूवेस्सं ॥ १७६ ॥ मति-श्रुतज्ञानयोर्विशेषो भेदो भणितः । केन ? इत्याह- तयोर्लक्षणादिभिर्भेदः, अथवा स चासौ अनन्तरोक्तो लक्षणादिभेदश्च । तल्लक्षणादिभेदस्तेन । सांप्रतं त्वाभिनिवोधिकज्ञानं प्ररूपयिष्ये विस्तरतो व्याख्यास्यामि । शेषश्रुतादिपरिहारेण किमित्याभिनियोधिकं प्रथम मरूप्यते ? इत्याह-- यस्माज्ज्ञानपञ्चके पूर्वमादौ तदुद्दिष्टमुपन्यस्तम् , तस्माद् " यथोदेशं निर्देशः" इति कृत्वा तत् प्रथम व्याख्यास्यामि ॥ इति गाथार्थः ॥ १७६ ॥ तत्त्व-भेद-पर्यायैश्च व्याख्या, तत्र तत्त्वं लक्षणम् , तच्च प्रागेवोक्तम् । अथ तद्भेदनिरूपणार्थमाह इन्दिय-मणोनिमित्तं तं सुयनिस्सियमहेयरं च पुणो । तत्थेक्केकं चउभेयमुग्गहो-प्पत्तियाईयं ॥ १७७ ॥ इन्द्रिय-मनोनिमित्तं यत् प्रागुक्तमाभिनिबोधिकज्ञानम् , तद् विभेदं भवति-श्रुतनिश्रितम् , इतरचाऽश्रुतनिश्रितम् । अथशब्दो वाक्यालङ्कारार्थः । तत्र श्रुतं संकेतकालभावी परोपदेशः, श्रुतग्रन्थश्च, पूर्व तेन परिकर्मितमतेर्व्यवहारकाले तदनपेक्षमेव यदुत्पद्यते तत् श्रुतनिश्रितम् । यत्तु श्रुतापरिकर्मितमतेः सहजमुपजायते तदश्रुतनिश्रितम् । तत्र तयोः श्रुतनिश्रिता-ऽथुतनिश्रितयोर्मध्ये एकैकं चतुआंदम् । कथम् ? इत्याह- यथासंख्यमवग्रहादिकम् , औत्पत्तिक्यादिकं च- अवग्रहे-हा-ऽपाय-धारणाभेदात् श्रुतनिश्रितं चतुर्विधम् , औत्पत्तिकी-बैनायिकी-कर्मजा-पारिणामिकीलक्षणबुद्धिभेदात्त्वश्रुतनिश्रितं चतुर्भेदमित्यर्थः । यद्यप्यौत्पत्तिक्यादिबुद्धिचतुष्टयेऽप्यवग्रहादयो विद्यन्ते, तथापि 'पुव्यमदिहमसुयमवेइ य तक्खणविसुद्धगहियत्था' इत्यादिवक्ष्यमाणवचनात् परोपदेशाधनपेक्षत्वात् ते श्रुतनिश्रिता न भवन्ति, शेषास्त्ववग्रहादयः पूर्व श्रुतपरिकर्मणाऽनन्तरेण न संभवन्ति, ईहादिगताभिलापस्य परोपदेशाद्यन्तरेणापत्तेः, इति ते श्रुत ||१०७॥ , मति-वतज्ञानविशेषो भणितस्तलक्षणादिभेदेन । पूर्वमाभिनिवाधिकमुद्दिष्ट तत् प्ररूपयिष्ये ॥ १७६ ॥ २ इन्द्रिय-मनोनिमितं तच्छूतनिश्चितमयेतरच पुनः । तत्रैक चतुर्भदमवग्रही-त्पत्तिक्यादिकम् ॥ १७७ ॥३ पूर्वमदृष्टमश्रुतमवैति च तत्क्षणविधवगृहीतार्था । | For Des s ert
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy