________________
विशे
बृहद्वात्तिः।
॥१०६॥
न संभवति, अतो विशिष्टपरप्रबोधाभावाद् न ताः परप्रबोधिकाः, तथा च सति न तद्द्वारेणाऽपि मतिज्ञानं परमबोधकम् । इति सूत्रस्य सूचकत्वात् सोपस्कारः पूर्वार्धस्याऽर्थोऽवसेयः ।। ___ अथोत्तरार्धस्य व्याख्या प्रस्तूयते- 'रूढं ति वेत्यादि' वेत्यथवा, भवतु मतिज्ञानस्य कारणं करादिचेष्टा, तथापि सा 'द्रव्यमतिः' इत्येवमागमे कचिदपि न रूढा द्रव्यश्रुतं पुनः पूर्वोक्तस्वरूपं 'श्रुतं' इत्येवं सर्वत्र रूढम् । ततश्च यद्यपि करादिचेष्टा मतिज्ञानस्य कारणं, परप्रबोधिका च; तथापि द्रव्यमतित्वेनाऽरूढत्वात कारणे कार्योपचारतो मतिरूपतया न व्यवह्रियते । अतो मतिज्ञानात् तस्याः पृथग्भूतत्वाद् न तद्द्वारेण तस्य परप्रबोधकत्वम् , द्रव्यश्रुतं तु कारणे कार्योपचारतः श्रुतज्ञानत्वेन प्ररूप्यते, इति तद्द्वारेणाऽस्य परप्रबोधकत्वमुपपद्यत एव । इति युक्तो मूके-तरभेदाद् मति-श्रुतयोर्भेदः। ततश्च 'तकारणाई दोण्ह वि बोहेति तओ न भेओ सिं' इत्येतदपास्तं भवति ॥ इति गाथार्थः ।। १७४ ।।
तदेवं करादिचेष्टाया मतिकारणत्वमभ्युपगम्योक्तम् , सांप्रतं सा मतेः कारणमेव न भवति, किन्तु श्रुतस्येति दर्शयन्नाह
सौ वा सदत्थो च्चिय तया वि जं तम्मि पच्चओ होइ। कत्ता वि हु तदभावे तदभिप्पाओ कुणइ चिट्ठ॥१७५॥
यदिवा सा करादिचेष्टा कर-चक्त्रसंयोगादिलक्षणा । किम् ? इत्याह-शब्दार्थ एव शब्दो वक्तृसमुदीरितवचनरूपस्तस्याऽर्थः शब्दार्थः श्रोतृगतज्ञाने प्रतिभासमानतदभिधेयवस्तुरूपः श्रुतज्ञानमिति तात्पर्यम् । किमित्यसौ शब्दार्थ एव ? इत्याह- यद् यस्मात् कारणात् तयाऽपि क; विहितया तस्मिन् शब्दार्थे भोजनेच्छादिलक्षणे प्रतिपत्तुः प्रत्ययो भवति । तथा कर्तापि तदभावे शब्दाभावे जिहारोगादिसद्भावात् शब्दोदीरणसामर्थ्याभाव इत्यर्थः, 'तदभिप्पाउ त्ति' तस्मिन् शब्दार्थे भोजनेच्छादिलक्षणे परस्मै प्रतिपादयितव्येऽभिप्रायो मनोविकल्पो यस्याऽसौ तदभिप्रायः करोति चेष्टां कर-वक्त्रसंयोगादिलक्षणाम् । इदमुक्तं भवतियद्यपि करादिचेष्टाऽनन्तरभावेनाऽवग्रहादीन् जनयति, तथापि शब्दार्थ एव सा श्रुतज्ञानमेवेत्यर्थः, यस्मात् तयापि विहितया तत्र शब्दार्थप्रत्ययो भवति । अतः शब्दार्थप्रत्ययजनकत्वात् कारणे कार्योपचारात् शब्दार्थप्रत्यय एव सा, न पुनर्मतिः, तथा कर्तापि 'भोक्तुमिच्छत्यसौ' इत्यादि प्रतिपत्ता जानात्वित्यभिप्रायवानेव भाषणशक्त्यभावे करादिचेष्टां करोति । ततश्च केाऽपि शब्दार्थद्योतनाभिप्रायेण क्रियमाणत्वात् करादिचेष्टा शब्दार्थ एव । ततश्चैषाऽपि श्रुतकारणत्वात् श्रुत एवान्तर्भवति, शब्दवत् , न मतो, १ क. 'अतोऽपि वि' । २ गाथा १७३ । ३ सा वा शब्दार्थ एव तयाऽपि यत् तस्मिन् प्रत्ययो भवति । कापि खलु तदभावे तदभिप्रायः करोति चेष्टाम् ॥१७५॥ ४ क. ग. 'तात्पर्यार्थः'। ५ क, ग, 'काश'।
१०६॥
Jan Education inten
For Personal and Private Use Only
www.jaineltrary.ary