SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 19 विशे० ॥१०५॥ मतिहेतूनामपि परप्रबोधकत्वे सति 'न भेओ सिं' अनयोर्मति-श्रुतयोन भेदः । कुतः? इत्याह- 'तउत्ति' ततस्तस्मात् । कारणात् । कस्मात् ? इत्याह-यद् यस्माद् द्वे अध्येते मति-श्रुते स्वरूपतो विज्ञानाऽऽत्मना न परप्रबोधके, विज्ञानस्य मूकत्वेन परप्रबो- बृहद्वत्तिः । धकत्वायोगात् , अवध्यादिवदिति । अथ श्रुतस्य यत् कारणं शब्दादिकं तत् परप्रबोधकम् , इत्येतावता मतिज्ञानाद् विशिष्यते श्रुतज्ञानम् । नन्वेतद् मतिज्ञानेऽपि समानम् , तत्कारणस्याऽपि करचेष्टादेः परावबोधकत्वादिति । एतदेवाह- तानि च तानि पूर्वोक्तरूपाणि कारणानि च तत्कारणानि द्वयोरपि मति-श्रुतज्ञानयोर्यथासंख्यं शब्दादीनि, करचेष्टादीनि च परं बोधयन्त्येव, इति कोऽनयोर्विशेषः १, न कश्चिदित्यर्थः । इति किमुच्यते- मूके तरभेदाद् भेदः ॥ इति गाथार्थः ॥ १७३ ॥ तदेवं परोक्ते व्यभिचारिते ततो निरुत्तरं विलक्षीभूतं तूष्णीम्भावमापन्नं परमवलोक्य संजातकारुण्यः स्वयमेव मूरिरुत्तरमाह देव्वसुयमसाहारणकारणओ परविबोहयं होज्जा । रूढं ति व दव्वसुयं सुयं ति रूढा न दव्यमई ॥१७४॥ द्रव्यश्रुतं पुस्तकन्यस्ताक्षरशब्दरूपं श्रुतज्ञानस्यैव कारणम् , न तु मतेः, इति श्रुतज्ञानं प्रत्यसाधारणकारणत्वाद् द्रव्यश्रुतं परप्रबोधकं भवेत् , न तु करादिचेष्टाः, तासां मति-श्रुतोभयकारणत्वेन साधारणकारणत्वादिति भावः इदमुक्तं भवति-पुस्तकादिन्यस्ताक्षररूपं, शब्दात्मकं च द्रव्यश्रुतम्, श्रुतज्ञानस्य मतिपूर्वकत्वाद् यद्यप्यानन्तर्येणाऽवग्रहे-हादीन् जनयति, तथाऽप्यक्षररूपत्वाद् मुख्यतया श्रुतज्ञानस्यैव किलाऽसाधारणं कारणमुच्यते, कारणत्वेनोपचारतः श्रुतज्ञानेऽन्तर्भवति, परप्रबोधकत्वेन च तत् सर्वस्यापि विदितमिति । एवं कारणस्य परप्रबोधकत्वाच्छूतज्ञानं परप्रबोधकं घटते, करादिचेष्टास्तु मतिज्ञानस्याऽसाधारणकारणं न भवन्ति, श्रुतज्ञानहेतुत्वादपि कर-वक्त्रसंयोगादिकायां हि करचेष्टायां दृष्टायां न केवलं तद्विषया अवग्रहादय उत्पद्यन्ते, किन्तु 'भोक्तुमिच्छत्ययम्' इत्यादिश्रुतानुसारिविकल्पात्मकं श्रुतज्ञानमप्युपजायत इति । अतोऽसाधारणकारणत्वाभावात् करादिचेष्टाः परमार्थतो मतिज्ञानस्य कारणमेव न संभवन्ति, ततश्च न तत्रान्तर्भवन्ति; तथा च सति न मतिज्ञानं परप्रबोधकम् । अथवा 'दब्बसुयमसाहारणकारणउ त्ति' द्रव्यश्रुतं पुस्तकादिन्यस्ताऽऽचारादिग्रन्थाक्षररूपम् , गुरुजनोदीरितदेशनाशब्दस्वरूपं च परमबोधकं भवेत् । कुतः ? इत्याहA असाधारणस्य मोक्षं प्रत्यनन्यसाधारणकारणस्य क्षायिकज्ञान-दर्शन-चारित्रलक्षणस्य वस्तुकलापस्य कारणत्वाद् हेतुत्वात् । ततश्च तवारेण श्रुतज्ञानमपि परप्रबोधकं घटते; करादिचेष्टास्तु यद्यपि मतिज्ञानस्य कारणम् , तथापि यथोक्तो विशिष्टः परप्रबोधस्तासु प्रायो B ॥१०५॥ १ दव्यश्रुतमसाधारणकारणतः परविबोधकं भवेत् । रूढमिति वा द्रव्यश्रुतं श्रुतमिति रूढा न अन्यमतिः ॥ १७ ॥ For som e Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy